________________
५० १० . ]
४. पद्मावती-प्रकरण
मम सविधमुपयासि मम वचनमनुपासि
वल्लवीरभिभूय जनितदासे' ।। १० ।।
इति मुल्लणा।
१. ग. हासे । *टिप्पणी-श्रीकृष्णभट्ट न वृत्तमुक्तावल्यां द्वितीयगुम्फेऽस्य छन्दसः झुल्लण-उपमुल्लणसुझुल्लन-अतिमुल्लननामभिश्चत्वारो भेदाः प्रदर्शितास्ते चात्राविकलं समुध्रियन्ते
अथ झुल्लनच्छन्दः यस्य चरणे सप्त पञ्चकलास्ततो द्व कले तज् भुल्लनं नाम । यद्यपि पञ्चकलभेदा अविशेषेणैव गृहीतास्तथापि प्रतिगणं द्वितीया कला परया कलया मिश्रितोद्वेजिकेत्यनुभवसाक्षिकम् । यथा
शेषपतगेशविबुधेशभुवनेशभूतेशसविशेषसुनिदेशधरणी, कन्दलितसुन्दरानन्दमकरन्दरसमज्जनमिलिन्दभवसिन्धुतरणी। ज्ञानमण्डनपरा कर्मखण्डनधरा शमनदण्डनपरा भूतिहरणी,
नित्यमिह वक्ति मुनिवृन्दमनुरक्तिमज्जयति हरिभक्तिरासक्तिकरणी ।। ६१ ।। अष्टत्रिंशत् कलं उपभुल्लम् । तस्मिश्चोपान्त्यो गुरुरन्त्यो लघुनियतः । यथा
चण्डभुजदण्डसदखण्डकोदण्ड (श) शिखण्डशरखण्डझरदण्डितविपक्ष, पर्वतशर्वरीनाथरुचिगर्वहरसर्वहृदखर्वसुखलीलनवलक्ष । दुष्टनररुष्टतरपुष्टनयजुष्टजनतुष्टमतिघुष्टचरितौघकृतिदक्ष.
तत्क्षणसमक्षकृतरक्षणसपक्षगणलक्षितसुलक्षण जयेश गतलक्ष ।। ६२ ।। कलाद्वयाधिक्यन एकोनचत्वारिंशत्कलचरणमपि संभवति, तच्च सझल्लनं नाम ।
यथा
चूतनवपल्लवकषायकलकण्ठबलमञ्जकलकोकिलाकूजितनिदानं, माधुरीमधुरमधुपानमत्तालिकुलवल्लकीतारझङ्कारसुखदानम् । चारुमलयाचलोद्यातपवमानजवनागरितचित्तभवसायकवितानम्,
पश्य सखि पश्य कुसुमाकरमुदित्वरं मा कलय मानसे मानमतिमानम् ।। ६३ ।। चत्वारिंशत्कलं प्रतिभुल्लनमपि स्वीकार्यम् ।
यथा
कासकैलाससविलासहरहासमधुमाससविकाससितसारससमानगति, शारदतषारकरसारघनसारभरहारहिमपारदविसारसमदारमति । बालकमृणालमृदुमालतीजालरुचिचालितविशालविबुधालयमरालतति, राजमृगराजवर राजते तव यशो राम सुरराजसुसभाजितसमाजनति ।। ६४ ॥