________________
३२ ]
वृत्तमौक्तिक -प्रथमखण्ड
[ ५० ५-६
३. गगनाङ्गणम् टगण'मिहादी रचयत विरमित विनतानन्दनं', मध्ये नियमविरहितं रविकृतयति कविवन्दनम् । शरपक्षकलितकलाक-नखमित'-वर्णविकासितं, गगनाङ्गणमिदं भवति फणिपतिपिङ्गलभाषितम् ।। ५ ।।
यथा
मानसमिह मम कृन्तति कोकिलविरुतमकारणं, कलितशरासनसायकमतनु: कलयति मारणम् । मधुसमय कथमपि सखि ! जीवं निजमपि धारये, रुचिरमधुभिदमन्तरा क्षणमपि सोढुमपारये ॥ ६ ॥
इति गगनाङ्गणम् ।
४. द्विपदी आदौ टगणसमुपरचितं तदनु च शरडगणसुविहितम् । गान्तं द्विपदीवृत्तं वसुपक्षकलं फणिपतिभणितम् ॥ ७ ॥
यथा
मम मानसमभिलषति सखि-कृतरासकेलिरसनायके । निजरुचिजितनूतनजलधर-मुरलीनादसुखदायके ।। ८ ।।
___ इति द्विपदी।
५. झुल्लणा. प्रथममिह दशसु यतिरनु च तदवधि भवति,
तदुपरि च मुनिविधुभिरत्र युक्ता । इति'' हि विधियुगदला मुनिदहनकृतकला
झुल्लणा भवति गणनियममुक्ता ॥ ६ ।।
यथा
करविधृतवंशरवकृतहृदय-चित्तभव
___ गोकुलानन्दकररुचिररासे ।
१. ग. ढगण। २. ग. विरचित। ३. न. धिनतामन्द । ४. ग. कविवन्द । ५. ग. कला। ६. ग. नखमिति । ७. ग. कथितममि । ८. ग. सखी । ६. ग. भाषितम् । १०. ग. कल्लणा। ११. म. इह ।