________________
चतुर्थ पद्मावती-प्रकरणम्
१. पद्मावती यदि योगडगणकृत-चरणविरचित-द्विजगुरुयुगकरवसुचरणाः नायक विरहित पद- कविजनकृतमद पठनादपि मानसहरुणा । इह दशवसुमनुभिः क्रियते कविभिर्विरतिर्यदि युगदहनकला
सा पद्मावतिका फणिपतिभणिता त्रिजगति राजति गुणबहुला ॥ १ ॥
यथा -
१
यथा
करयुगधृतवंशी रुचिरवतंसी गोवर्द्धनधारणशीलः, प्रियगोपविहारी भवसन्तारी वृन्दावनविरचितलोलः । धृतवरवनमाली निजजनपाली वरयमुनाजलरुचिशाली, मम मङ्गलदायी कृतभवमायी वरभूषणभूषितभाली ॥ २ ॥ इति पद्मावती ।
२. कुण्डलिका
दोहाचरणचतुष्टयं प्रथमं नियतमवेहि, कुण्डलिकां फणिरनुवदति काव्यं तदनु विधेहि । काव्यं तदनु विधेहि पदं प्रतियमकितचरणं, तदुभयविरतो भवति पुनरपि च तदुभयपठनम् । तदुभयसुपठनसमयरचितकरक विजनमोहा । कुण्डलिका सा भवति भवति यदि पूर्वं दोहा ॥ ३ ॥
चरणं शरणं भवतु तव मुरलीवादनशील, सुरगणवन्दितचरणयुग वनभुवि विरचितलील । वनभुवि विरचितलील दुष्टजनखण्डनपण्डित, दुर्जनजनहृदि कील गण्डयुगकुण्डलमण्डित | दुर्जनजनहृदि कील" भीतभयतापविहरणं", मुनिजनमानसहंस हरतु मम तापं चरणम् ॥ ४ ॥
"
,
|
१. ग. मुनिभिः । २. ग. तद्यथा । ग. प्रतौ यथा शब्दस्य स्थाने सर्वत्र तद्यथा पाठो दृश्यते , ३. ग. माली । ४. ग. नववरदायो । ५. ग. माली । ६. ग. नास्ति पाठ: । ७. ग. नास्ति पाठः । क. ख. विहरण | ६. ख. चरणः, ग. वरर्णम् ।