SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ३० ] वृत्तमौक्तिक - प्रथमखण्ड ५[३] मोहिनी प्रयुजि पदे नवमात्राः समेऽपि दिग्रुद्रसंख्याभिः । पुरतो दोहा यस्यां शेषस्तां मोहिनीमाह ॥ १६ ॥ इति मोहिनी । ५[४] चारुसेना असमपदे शरचन्द्रा:' समयोरेकादशैव यस्यास्ताम् । दोहाविरचितशीर्षा भणति फणीन्द्रस्तु चारुसेनेति ॥ २० ॥ इति चारुसेना | ५[५] भद्रा विषमेषु पञ्चदशभिद्वितीयतुर्यो च सूर्यसंख्याभिः । या दोहाङ्कितशीर्षा सा भद्रा भवति पिङ्गलेनोक्ता ।। २१ ।। [ १० १६-२५ इति भद्रा । ५][६] राजसेना पूर्ववदेव हि विषमे समे क्रमादेव सूर्यरुद्रैश्च । पूर्ववदेव हि दोहा यत्र स्याद् राजसेना सा ॥ २२ ॥ इति राजसेना । ५[७] तालङ्किनी विषमे पदेषु (च) यस्यां षोडशमात्रा विराजन्ते । पूर्ववदेव हि समयोर्दोहाऽपि च पूर्ववद्भवति ॥ २३ ॥ तालङ्किनीति कथिता सा रड्डा नागराजेन । 3 एवं सप्तविभेदा विविच्य सम्यक् प्रदर्शिताः क्रमशः ३ ।। २४ ।। उदाहरणमेतेषां ग्रन्थविस्तरशङ्कया । नोक्त सुबुद्धिभिस्तद्धि स्वयमूह्यं महात्मभिः ।। २५ ।। इति श्रीवृत्तमक्तिकवतिके' तृतीयं रडु - प्रकरणं समाप्तम् । १. ग. चन्द्रो । २. ख. ग. च । ३. ग. क्रमतः । ४. म. तद् । ५. ग. विरचया । ६. ग. 'वार्तिके' नास्ति । ७. ग. थईड़ा ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy