SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १० ११-१८ ३. रडा-प्रकरणम् [ २६ अपरान्ते लघुयुगवियमः स्यात् कलाद्वयम् । समादौ स्याच्चतुर्थान्ते त्रिलघुर्गण ईस्तिः ॥ ११ ॥ यथा पिकरुतमिदमनुविलसति दिक्षु किंशुककलिका विकसति' वहति मलयमरुदयमपि सुलघु विरुतमलिरपि कलयति विकसति मञ्जुल मञ्जरिरपि च । इति मधुरनुवनमनुसरति बहुलीभूय सुकेशि ! हरिरपि विनमति चरणयुगमनुसर तं हृदयेशि ! ॥ १२ ॥ रड्डाया: सप्तभेदाः अर्थतस्याः सप्तभेदाः कथ्यन्ते पिङ्गलोदिताः । यान् विधाय कवि: काव्यगोष्ठयां बहुमतो भवेत् ॥ १३ ।। प्रथमा करभी प्रोक्ता ततो नन्दा च मोहिनी। चारुसेना चतुर्थी स्यात्तथा भद्रापि पञ्चमी ।। १४ ।। राजसेना तु षष्ठी स्यात् तथा तालकिनी मता। सप्तमी कथिता रड्डा भेदा लक्षणमुच्यते ॥ १५ ॥ ५[१] करभी विषमेऽग्निविधुकलाको रुद्रकलाको द्वितीयोऽपि । तुर्योऽपि रुद्रमात्रः पञ्चपदानीह कथितानि ।। १६ ।। एवं पञ्चपदानामग्रे दोहापि यस्यास्ताम् । करभीति नागराजः कथयति गणकल्पना तु दोहावत् ।। १७ ॥ इति करभी। ___५[२] नन्दा विषमेषु वेदबिधुभिद्वितीयतुयौं च रुद्रमात्राभिः । अग्रे दोहा यस्यां' तां नन्दामामनन्ति वृतज्ञाः ।। १८ ।। इति मन्दा। १. ग. विलसति । २. ग मजुर। ३. ख. ग. प्रथ। ४. ग. यस्याः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy