________________
२० ]
वृधमौक्तिक - प्रथमखण्ड
[५० ३५-४३
टगणमिहादौ कलय जलधिकलत्रयमनु च कुरु । टगणं चान्ते रचय दहनयुतविप्रं जं कुरु ॥ ३५ ॥ एकादशकलविरतिरथ दहनविधुभिरपि भवति । काव्यं भुजगकविरिति बुधजनसुखकरमनुवदति ॥ ३६ ॥
यथा
मुकुटविराजितचन्द्र चन्द्रकलोपमतिलकवर,
लिलकदहनवरनयन नयनजितमदनमनोहर । अमरनिकरकृतमनन मनननिरवधिकरुणाकर,
करधृतमनुजकपाल विबुधजनतिमिरविभाकर ॥ ३७ ।।
६. उल्लालम् आदौ त्रयस्तुरंगास्तदनु त्रिकलो रसस्तथा तुरगः । त्रिकलश्चान्ते यस्मिन्नुल्लालं तं विजानीयात् ॥ ३८ ॥ षट्पदवृत्तं द्वाभ्यां वृत्ताभ्यां जायते यस्मात् । काव्योल्लालो तस्मान्निरूपितौ वृत्तमौक्तिके स्फुटतः ॥ ३९ ॥ प्रस्तारस्तु द्विधा प्रोक्तो गुरुलघ्वादिभेदतः । अत्र लघ्वादिभेदेन प्रस्तारपरिकल्पना ॥ ४० ॥ चतुरधिका इह चत्वारिंशद् गुरवो भवन्ति काव्येऽस्मिन् । यद् गुरुहीनं वृत्तं शक्रं तन्नामतो वृत्तम् ॥ ४१ ।।
यथा
अभिनवजलधरपटलसदृशतर कनकवसनधर,
परिणतशशधरवदन समरविधिकरणचतुरतर । अविरतवितरणनिपुण सकलरिपुकुलवनकरिवर,
विदलितगजदलतुरग विगतभय जय जय यदुवर ॥ ४२ । ।
काव्यस्य पञ्चचत्वारिंशद्भेदाः यथा यथाऽस्मिन् वलयो विवर्द्धते,
तथा तथा नाम विधिविधीयताम् । पठन्तु' शम्भुः प्रथमं ततो बुधाः,
भृङ्गं तदन्ते श्रुतियुग्मसम्भवम् ॥ ४३ ॥
१. ग. वित्तं।
२. ख.ग. पठन्ति
।