SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प० २७ - ३४] २. षट्पद-प्रकरणम् [ १६ जितनयनचकोरं नन्दकिशोरं गोपीमानसचोरं, ___ कृतराधाधारं सज्जनतारं दितिसुतनाशकठोरम् ।। नवकलितकदम्बं जगदवलम्बं सेवितयमुनातीरं, नन्दितसुरवृन्दं जगदानन्दं गोपीजनहृतचीरम् । धृतधरणीवलयं करुणानिलयं दन्तविनिर्जितहीरं, भवसागरपारं भुवनागारं नन्दसुतं यदुवीरम् ॥ २७ ॥ इति चौपया ६. पत्ता पिङ्गलकविकथिता त्रिभुवनविदिता घत्ता द्विरसकला भवति । कुरु सप्तचतुष्कल-मन्तत्रिकल-त्रिलघुकमेतदपि द्विपदि ।। २८ ।। प्रथमं दशसु यतिः स्याद् वसुमात्राभिद्वितीयाऽपि ।। दहनावनिभिः पुनरपि यतिरिह(य)मेकार्द्धघत्तायाः ।। २६ ।। यथा भवबाधाहरणं राधारमण नन्दकिशोरं स्मर हृदय । यमुनायास्तीरे तरलसमीरे कृतमनुरासं त्वमनुसर' ।। ६० ।। इति घत्ता । ७. घत्तानन्दम् अहिपतिपिङ्गलकथितमयुतगुणयुतमिह भवति घत्तानन्दम् । यद्येकादशविरतिर्मुनिषु च भवति यतिरधिकजनितानन्दम् ।। ३१ ।। आदौ षट्कलमिह रचय डगणत्रयमिह धेहि । ठगणं डगणं द्वयमपि धत्तानन्दे धेहि ॥ ३२ ॥ यथा दितिसुतनिवहगञ्जनमसुखभजनमनुगत्तजनतापहरणम् । निखिलमानसरञ्जनमतिनिरञ्जनमस्तु किमपि महः शरणम् ।। ३३ ।। इति घत्तानन्दम् ८[१] काव्यम् अथ षट्पदहेतुत्वात् काव्यं सम्यङ् निरूप्यते । लक्ष्यलक्षणसंयुक्त प्रोल्लालं' सप्रभेदकम् ।। ३४ ।। १. ग. तमनुसर । २. ग. तद्यथा। ३. ख. ग. प्रोल्लासम् । उल्लालस्थाने ख. ग. प्रतो सर्वत्रापि उल्लासं विद्यते ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy