________________
१८ ]
यथा
यथा था
वृत्तमौक्तिक - प्रथमखण्ड
यथा
लक्ष्मण दिशि दिशि विलसति घनमनु शम्पा,
इयमपि चञ्चलतरङ्ग चलजलरुहपम्पा । दयितोदन्तः सम्प्रति' कथमपि न ह्यवगतं,
सोढुं शक्यो विरहः कथमिह हि मयकानुगतः ।। २३॥
गर्जति जलधरः परिनृत्यति शिखिनिवहः,
नीपवनीमवधूय वहति दक्षिणगन्धवहः । दूरे दयितः कथय सखि ! किमिह हि करवै,
[ १० २३-२६
प्रज्वालय दहनं कटिति शलभमनुकर ।। २४ ॥
इति गन्धानकम् । ५. चोपेया छन्दः
चौपैया छन्दः कविकुलचन्द्रः कथयति पिङ्गलनागः,
कुरु सप्तचतुष्कलगणमिह पुष्कलमधिगुरुचरणविभागः ।
इह दिग्वसूर्यैः पण्डितवर्यैर्यतिरिह मात्रास्त्रिशत्,
यस्मिन् किल * कथिते कविजनमथिते राजति नृपवरसंसत् ||२५|| या विंशत्यधिकशतैर्मात्राणामेकपादेषु । सा चौपैया न्यस्यादशीत्यधिकशतचतुष्टयकलाकाः ॥ २६ ॥
चेतः स्मरमहितं कमलासहितं दारितदारुणकंसं,
हतधेनुकदानवमिच्छामानवमृषिजनमानसहंसम् । यमुनावरतीरे तरलसमीरे कारितगोपी सं
भवबाधाहरणं राधारमणं कुन्दकुसुमसमहासम् ।।
व्रजजनकुलपालं लालितबालं वादितमृदुरववंश,
रोचनयुतभालं घृतवनमालं शोभिततरलवतंसम् । दितिजव्रजकालं वादिततालं कृतसुरमुनिगणशंसं,
रुचिकलिततमालं जितघनजालं भासितयादववंशम् ॥ सरसीरुहनयनं जगतामयनं कण्ठतलस्थितहारं,
धृतगोपसुवेषं कुञ्चितकेशं स्मितजितनवघनसारम् ।
१. ग. कथितोदन्तमिदानीं । २. ख. ग. न सहनमिदं दुःखं मरणं शरणमनुगतं । ३. ग. नास्ति पाठः । ४. ख ग झटिति । ५. ग. कल । ६. ग. मृदुतरवंशं ।