________________
द्वितीयं षट्पद-प्रकरणम्
१. दोहा
त्रिदशकला विषमे रचय सम एकादश धेहि । दोहालक्षणमेतदिति कविभिः कथितमवेहि ।। १ ॥ टगण-डगण-ढगणाः क्रमत इति विषमे च पतन्ति । समपादान्ते चैककलमिति दोहां कथयन्ति ।। २ ॥
यथा
गौरीविरचिततनुशकल मस्तकराजितगङ्ग। जय वृषभध्वज पुरमथन महादेव निःसङ्गः ।। ३ ।।
दोहायाः त्रयोविंशतिभेदाः यस्याः प्रथमतृतीये पादे जगणा भवन्ति सा कर्तु: । श्वपचगृहीतस्त्रीवद्' दोहादोषं प्रकाशयति ॥ ४ ॥ भ्रमर-भ्रामर-शरभाः श्येनो मण्डूक -मर्कटौ करभः । मदकल-पयोधर-चलाः नरो मरालस्तथा त्रिकलः ॥ ५ ॥ वानर-कच्छौ मत्स्यः शार्दू लोप्यहिवरो व्याघ्रः । उन्दुर-शुनक-बिडालाः सर्पश्चैते प्रभेदाः स्युः ॥ ६ ॥ रसपक्षवर्णयुक्तो द्वाविंशतिगुरुक-वेदलघुसहितः ।। कथितः प्रथमो भेदः गुरुशून्यः सर्वलघुकोऽन्त्यः ।। ७ ॥ एकैकस्य गुरोर्लोपाल्लघुद्वयविवृद्धितः । दोहाभेदस्समुद्दिष्टास्त्रयोविंशतिसंख्यकाः ॥ ८ ।। स्फुटतरमेते भेदाः समुदाहृत्य प्रदर्शिताः पित्रा । स्वनिबन्धे* कविवर्यैस्तत एव विलोकनीयास्ते ।। ।।
इति दोहा।
१. ग. कडुः। २. ग. तावद् । ३. ग. सद्ध क। ४. ग. रसाल। ५. ग. पदयं ६-७. नास्ति । *टिप्पणी-भट्टलक्ष्मीनाथप्रणीते पिङ्गलप्रदीपे गुरुह्रास-लघुवृद्धयनुपातेन दोहा-द्विपथाच्छन्दसः
त्रयोविंशभेदानां वर्गीकरणम्१ भ्रमरः २२ गुरु
२६ अक्षर २ भ्रामरः २१ गुरु
६ लघु
२७ अक्षर ३ शरभः २० गुरु
८ लघु
२८ अक्षर