________________
१२)
वृत्तमौक्तिक-प्रथमखण्ड
[१० ११२. १२०
यथा
स जयति मुरलीवादनकेलिकलाभिविमोहयन् गोपीः । वृन्दावनान्तभूमौ रासरसाक्षिप्तविबुध'विधिरुद्र मुख: ।। ११२ ॥
इति गाहिनी।
६. सिहिनी यस्या द्वितीयचरणे विंशतिमात्रा मनोहराकारगुणाः । सा सिंहिनी प्रदिष्टा नागाधिपपिङ्गलेन सम्प्रोक्ता ॥ ११३ ॥
यथा
वन्देऽरविन्दनयनं वृन्दारकवृन्दवन्दितपदाम्भोजम् । नन्दानन्दनिधानं नवजलधररुचिरमन्दिरारमणम् ।। ११४ ॥
इति सिहिनी
७. अथ स्कन्धकम् यस्य द्वितीयचरणे चतुर्थचरणे च विंशतिर्मात्राः स्युः । स स्कन्धक' इति कथितो यस्मिन्नष्टौ गणाश्चतुर्मात्राभिः ।। ११५ ॥
यथा
राधामुखाब्जतरणिः तरणिः संसारसागरोत्तरणविधौ । स जयति निजभक्तानां कामितदाता दुरन्तशक्तिसहायः ।। ११६ ।।
___ स्कन्धकस्याऽष्टाविंशतिभेदाः नन्दो भद्रः शिवः शेषः सारङ्ग-ब्रह्म-वारणाः । वरुणो मदनो नीलः तालाङ्कः शेखरः शरः ।। ११७ ॥ गगनं शरभो विमतिः क्षीरं नगरं नरः स्निग्धः । स्नेहलु-मदकल-भूपाः५ शुद्धः कुम्भः सरिः कलशः ।। ११८ ॥ शशीति संज्ञका भेदाः स्कन्धकस्य प्रकोर्तिताः । वसुपक्षमितास्ते स्युः गुरुह्रासाल्लवृद्धि तः ।। ११६ ।। त्रिंशद्गुरवो यस्मिन् वेदा लघवश्च स प्रथमः । वसुशरलघवो यस्मिन् गुरुत्रयं चैव सोऽन्त्यः स्यात् ।। १२० ।।
१. ग. विबुध इति पाठो नास्ति । २. ग. स्कन्धं । ३. ग. मन्दो.। ४. म चारिणः । ५. म. स्नेहलुकमलभूपालाः ।