________________
५० १०५ - १११ ]
१. गाथा-प्रकरण
यथा
तरणितनूजातीरे चीरेऽपहृतेऽपि वीरेण । हिमनीरे रमणीनामकुटिलधारेव मनसि संजज्ञ ॥ १०५ ॥
इति विगाथा
३. गाहू' पूर्वार्द्ध च परार्द्ध सप्ताधिकविंशतिर्मात्राः । अर्द्धद्वयेऽपि यस्याः षष्ठो लः सैव गाहू स्यात् ।। १०६ ॥
यथा
अतिचटुलचन्द्रिकाञ्चितचञ्चलनवकुन्तलं किमपि । राधावितनुज बाधासाधारणमौषधं जयति ।। १०७ ।।
यथावा
कलशीगतदधिचोरं रदजितहीरं स्फुरच्चीरम् ।। राधावदनचकोरं नन्दकिशोरं नमस्यामः ॥ १०८ ॥
इति गाहू ।
४. उद्गाथा यस्या द्वितीयचरणे चतुर्थचरणे भवन्ति वै मात्राः । वसुविधुसंख्यायुक्ताः सोद्गाथा पिङ्गलेन सम्प्रोक्ता ॥ १०६ ।।
यथा
उपवनमध्यादभिनवविलोकनासक्तराधिकाकृष्णौ। भन्योन्यगमनवेलामपेक्षमाणौ न जग्मतुः क्वापि ॥ ११० ॥
इस्युद्गाथा
५. गाहिनी यस्या द्वितीयचरणे वसुविधुमात्रा भवन्ति तुर्ये तु । पादे विंशतिमात्राः सा गाहिनिका तु सिंहिनी विपरीता ॥ १११ ।।
१. ग. गाहा। २. ग. चित्ता ।
३. स. प्रवेक्ष्यमाणी, ग. प्रपेक्ष्यमाणो ।