SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प०६१ - १०२] १ गाथा-प्रकरण १ गावा प्रथमे द्वादशमात्रा मात्रा हयष्टादश द्वितीये तु'। दहने द्वादशमात्रास्तुर्ये दशपञ्च सम्प्रोक्ताः ।। ६१ ।। इति गाथाया लक्षणमार्यासामान्यलक्षणं चाऽथ । षष्ठे जो वा विप्रो विषमे न हि जो गणाश्च गुर्वन्ताः ।। ६२ ।। सप्त हरयः सहाराः षष्ठे रज्जुद्विजोऽपि वा भवति । चरमदले लघु षष्ठं विषमे पवनस्तु नैव स्यात् ॥ ६३ ॥ यथा गोकुलहारी मानसहारी वृन्दावनान्तसञ्चारी। यमुनाकुजविहारी गिरिवरधारी हरिः पायात् ॥ १४ ॥ एकस्मात्त कुलीना द्वाभ्यामप्यभिसारिका भवति ।। नायकहीना रण्डा वेश्या बहुनायका भवति ॥ १५ ॥ गाथायाः पञ्चविंशतिभेदाः सर्वस्या गाथायाः मुनिबाणसमाख्यया कला ज्ञयाः । प्रथमे दले खरामैरपरेऽपि दलेऽश्वपक्षाभ्याम् ॥ ६६ ।। नखमुनिपरिमितहारा वह्निमिता यत्र लघवः स्युः । सा गाथानां गाथा प्रथमा खाग्न्यक्षरा लक्ष्मीः ।। ६७ ॥' एकैकगुरुवियोगाल्लघुद्वयस्यापि संयोगात् । अस्या भवन्ति भेदाः शरपक्षाभ्यां मिता एव ॥ १८ ॥ मुनिपक्षाभ्यां हाराः लघवो दहनैश्च सः प्रथमः । विधुबाणैर्लघवः स्युगुरवो दहनैश्च सोऽन्त्यः स्यात् ।। ६६ ।। त्रिंशद्वर्णां लक्ष्मी वदते सर्वपण्डिताः कवयः । नश्यत्येकैको यद्वर्णः कथयामि तानि नामानि ॥ १० ॥ लक्ष्मीऋद्धिबुद्धिर्लज्जा विद्या क्षमा च वै देही । गौरी धात्री चूर्णा छाया कान्तिर्महामाया ॥ १०१ ।। कीतिः सिद्धिर्मानी रामा विश्वा च वासिता च मता। शोभा हरिणी चक्री कुररी' हंसी च सारसी च मता ॥ १०२ ।। १. प. ऽपि । २. ग. प्रथमदले च खरामः स्वरपक्षाभ्यां मिता एव । ख. स्वरपक्षाभ्याम् । ३-४. न. पद्यद्वयं ९७-६८ नास्ति। ५. व. ग. पद्यमेक १०० नास्ति। ६. ग. वृद्धिः । ७. ख. ग. देही च। ८. ग. पूर्णा। ६. ग. मानिनी। १० ग. तुरगी।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy