SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ] वृत्तमौक्तिक - प्रथमखण्ड त्यक्त्वा पञ्चममङ्कं पूर्वोक्तानेव भावमापाद्य । दत्वा तथैवमङ्कं षष्ठं' कोष्ठं प्रपूरयेद् विद्वान् ॥ ८० ॥ कृत्वैक्यं चाङ्कानां पञ्चमपंक्तिस्थितानां च । 3 त्यक्त्वा पञ्चदशाङ्कं हित्वैकं पूरयेन् मुनेः कोष्ठम् ।। ८१ ।। एवं निरवधिमात्राप्रस्तारेष्वङ्कबाहुल्यात् । ૪ * प्रकृतानुपयोगवशान्न कृतोऽङ्क विस्तारः ॥ ८२ ॥ एवं पञ्चमपंक्ति कृत्वा पूर्णां च प्रथममेकाङ्कम् । दत्वा पञ्चमपंक्तिस्थितैरथाङ्कः प्रपूरयेत् षष्ठीम् ॥ ८३ ॥ एकीकृत्य तथाङ्कान् पञ्चम-षष्ठस्थितान् विद्वान् । कुर्याच्चतुर्थपंक्ति पूर्णां नागाज्ञया तूर्णम् ॥ ८४ ॥ वृत्तं प्रभेदो मात्राश्च वर्णा लघुगुरू तथा । एते षट्पंक्तितः पूर्णप्रस्तारस्य विभान्ति वै ॥ ८५ ॥ नष्टादिफल नष्टोद्दिष्टं यद्वन् मेरुद्वितयं तथा पताका च ।" मर्कटिकाऽपि तद्वत् कौतुक हेतुर्निबध्यते तज्ज्ञः ॥ ८६ ॥ प्रस्तारसंख्या षड्विंशतिः सप्तशतानि चैव, * तथा सहस्राण्यपि सप्तपंक्तिः । लक्षाणि दृग्वेदसुसम्मितानि, [ ५०८०-१० कोट्यस्तथा रामनिशाकरैः स्युः ।। ८७ ।। १३४२१७७२६ समस्त प्रस्तार पिण्डसंख्या । एकाक्षरादिषडधिकविंशतिवर्णान्तवर्णवृत्तानाम् । उक्ताः समस्तसंख्या लक्ष्यन्ते जातयश्चार्याः ।। ८८ ।। गाथाभेदाः मुनिबाणकला गाथा विगाथापि तथा भवेत् । वेदबाणकला गाहू" षष्ट्यो (यु) द्गाथा भवेत् पुनः ॥ ८९ ॥ गाहिनी स्याद् द्विषष्ट्या तु मात्राणां सिंहिनी तथा । चतुःषष्ट्या कलानां तु स्कन्धकं कथ्यते बुधैः ॥ ६० ॥ १. ग. नास्ति पाठ: । २. ग. वे पूरयेद् । ३. ग. नास्ति पाठः । ४. प. प्रकृतोपयोगवशते । ५. ग. एकैकम् । ६. ख. ग. लक्षाणि पञ्चाशदष्वाष्टसंख्या, हीनानि कोटयो नवपंक्तिसंख्या: । ७. ग. न लक्षा जातयश्चार्याः । ख चार्थाः । ८. ग. दूणा ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy