________________
१०.६६-७६]
१. गाथा -प्रकरण
वृत्तद्वयस्थगुरुलघुज्ञानम् पृष्ठे वर्णच्छन्दसि कृत्वा वर्णांस्तथा मात्राः । वर्णाङ्कन कलाया लोपे गुरवोऽवशिष्यन्ते ' ॥ ६६ ॥
वर्णमकंटी मर्कटी लिख्यते वर्णप्रस्तारस्यातिदुर्गमा । कोष्ठमक्षरसंख्यातं' पंक्ती' रचय षट् तथा ।। ७० ॥ प्रथमायामाद्यादीन् दद्यादांश्च सर्वकोष्ठेषु । अपरायां तु द्विगुणान् अक्षरसंज्ञेषु तेष्वेव ॥ ७१ ।। आदिपंक्तिस्थितैरङ्कविभाव्यापरपंक्तिगान् । अङ्काश्चतुर्थपंक्तिस्थकोष्ठकानपि पूरयेत् ॥ ७२ ॥ * पूरयेत् षष्ठ-पञ्चम्याव (म)द्वैस्तुर्याङ्कसम्भवैः । एकीकृत्य चतुर्थस्थ-पञ्चमस्थाङ्ककान् सुधीः ।। ७३ ।। कुर्यात् पंक्तितृतीयस्थकोष्ठकानपि पूरितान् । वर्णानां मर्कटी सेयं पिङ्गलेन प्रकाशिता ।। ७४ ।। वृत्तं भेदो मात्रा वर्णा गुरवस्तथा च लघवोऽपि । प्रस्तारस्य षडेते ज्ञायन्ते पंक्तितः क्रमतः ।। ७५ ॥
मात्रामर्कटी कोष्ठान् मात्रासम्मितान् पंक्तिषट्क',
कुर्यान् मात्रामर्कटीसिद्धिहेतोः । तेषु द्वयादोनादिपंक्ति (क्ता)वथाङ्का
स्त्यक्त्वाऽऽद्यात सर्वकोष्ठेषु दद्यात् ।। ७६ ।। दद्यादङ्कान् पूर्वयुग्माङ्कतुल्यां
स्त्यक्त्वाऽऽद्यात पक्षपंक्तावथाऽपि । पूर्वस्थाङ्कर्भावयित्वा ततस्तान्,
कुर्यात् पूर्णान्नेत्रपंक्तिस्थकोष्ठान् ॥ ७७ ।। प्रथमे द्वितीयमङ्गं द्वितीयकोष्ठे च पञ्चमाङ्कमपि । हत्वा बाणद्विगुणं तद् द्विगुणं नेत्रतुर्ययोर्दद्यात् ।। ७८ ।। एकीकृत्य तथाङ्कान् पञ्चमपंक्तिस्थितान् पूर्वान् ।। दत्वा तथैकमकं कुर्यात्तमैव पञ्चमं पूर्णम् ॥ ७९ ॥
१. ग. विशिष्यते । २. ग. संज्ञातं । ३. ग. पंक्ति । ४. ग. पूरयत्यष्टपञ्चभ्या वेधः ५. ग. प्रस्तारश्च । ६. ग. षट्के । ७. ग. पञ्चा । ८. ग. पूर्णाम् ।