SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ६ वृत्तमौक्तिक -प्रथमखण्ड [ ५० ५६ - ६८ वर्णनष्टम् नष्ट पृष्ठे भागः कर्त्तव्यः पृष्ठसंख्यायाः । समभागे लं' कुर्यात् विषमे दत्वैकमानयेद् गुरुकम् ।। ५६ ।। वर्णमेरुः कोष्ठानेकाधिकान् वर्णैः कुर्यादाद्यन्तयोः पुनः । एकाङ्कपरिस्थाङ्कद्वयैरन्यात् (न्? )प्रपूरयेत् ॥ ५७ ।। वर्णमेरुरयं सर्वगुर्वादिगणवेदकम् ।। प्रस्तारसंख्याज्ञानञ्च फलं तस्योच्यते बुधैः ।। ५८ ।। वर्णपताका दत्वा पूर्वयुगाङ्कान् पूर्वाङ्कॉजयेदपरान् । अङ्कः पूर्व यो वै भृतस्ततः पंक्तिसञ्चारः ।। ५६ ।। अङ्काः पूर्व भृता येन तमकं भरणे त्यजेत् । अङ्कश्च पूर्वं यः सिद्ध स्तमकं नैव साधयेत् ।। ६० ॥ प्रस्तारसंख्यया चैवमङ्कविस्तारकल्पना । पताका सर्वगुर्वादिवेदिकेयं विशिष्य तु ॥ ६१ ॥ मात्रामेरुः एकाधिककोष्ठानां द्वे द्वे पंक्ती समे कार्ये । तासामन्तिमकोष्ठेष्वेकात पूर्वभागे तु ।। ६२ ।। एकाङ्कमयुक्पंक्तेः समपङ्क्तः पूर्वयुग्माङ्कम् । दद्यादादिमकोष्ठे यावत् पङ्क्तिः प्रपूर्तिः स्यात् ।। ६३ ।। प्राद्याङ्केन तदीयैः शीर्षाङ्कमिभागस्थैः ।। उपरिस्थितेन कोष्ठं विषमायां पूरयेत् पंक्तौ ॥ ६४ ॥ समपंक्तो कोष्ठानां पूरणमाद्याङ्कमपहाय । उपरिस्थाङ्कस्तदुपरिसंस्थैर्वामस्थितैरङ्कः ॥ ६५ ॥ मात्रामेरुरयं प्रोक्तः पूर्वोक्तफलभागिति । मात्रापताका अथ मात्रापताकाऽपि कथ्यते कवितुष्टये ।। ६६ ।। दत्वोद्दिष्टवदङ्कान् वामावर्तेन लोपयेदन्त्ये। अवशिष्टो वै योऽङ्कस्ततो भवेत्' पंक्तिसञ्चारः ॥ ६७ ॥ एकैकाङ्कस्य लोपे तु ज्ञानमेकगुरोर्भवेत् । द्वित्र्यादीनां विलोपे तु पंक्तिद्वित्र्यादिबोधिनी ॥ ६८ ॥ १. ग. लघु । २. ख. वर्णान् । ३. ख. ग. वेदनम् । ४. ग. भरणं । ५. ग. अन्त्यः । ६. ग. नास्ति पाठः।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy