SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक -प्रथमखण्ड [१०३१.४३ भूपति-नायक-गजपति-नरेन्द्र-कुचवाचकाः शब्दाः । गोपाल-रज्जु-पवना मध्यगुरोर्बोधका' ज्ञेयाः ॥ ३१ ॥' दहन-पितामह-ताताः पदपर्यायश्च गण्ड'-बलभद्रौ । जङ्घायुगलं रतिरित्यादिगुरौ स्युश्चतुष्कले संज्ञाः ।। ३२ ॥ द्विज-जाति-शिखर-विप्राः परमोपायेन पञ्चशर-बाणौ । द्विजवर इत्यपि कथिता' लघुकचतुष्कले गणे संज्ञाः ॥ ३३ ॥ सुनरेन्द्राधिप-कुञ्जरपर्याया रदन-मेघयोश्चापि । ऐरावत-तारापतिरित्यादि लघोश्च पञ्चमात्रस्य ॥ ३४ ।। वीणा-विराट-मृगेन्द्रामृत-विहगा गरुडपर्यायाः । जोहल -यक्ष-भुजङ्गा मध्यलघोः पञ्चमात्रस्य ।। ३५ ।। विविधप्रहरणनामा पञ्चकलः पिङ्गलेनोक्तः । गज-रथ-तुरङ्गम-पदातिसंज्ञकः स्याच्चतुर्मात्रः ।। ३६ ।। ताटङ्क-हार-नूपुर-केयूरकमिति भवन्ति गुरुभेदाः । शर-मेरुदण्ड-कनकं लघुभेदा इति विजानीत ।। ३७ ।। शब्द-रूप-रस-गन्ध-काहलैः पुष्प-शङ्ख-बाणनामभिः । सत्प्रबन्ध इह वृत्तमौक्तिके ज्ञायतां लघुकनाम पण्डिताः ॥ ३८ ।। वर्णवृत्तानां गणसंज्ञा मस्त्रिगुरुरादिलघुको यगणो रगणश्च लघुमध्यः । अन्तगुरुः सस्तगणोऽप्यन्तर्ल घुमध्यगुरुको जः ।। ३९ ।। आदिगुरुर्भगणोऽपि च नगणस्त्रिलघुर्मतः सद्भिः । इति पिङ्गलप्रकाशितः गणसंज्ञा वर्णवृत्तानाम् ॥ ४० ।। . ___ गणदेवता पृथ्वी-जल-शिखि-पवना गगनं द्युमणींदु-पन्नगान् क्रमतः । इत्यष्टौ गणदेवान् पिङ्गलकथितान् विजानीत ।। ४१ ।। गणानां मैत्री मगणस्त्रिलघू मित्रे भृत्यौ भयगणौ स्मृतौ । उदासीनौ जतगणावरी रसग़णौ मतौ ॥ ४२ ॥ गणदेवानां फलाफलम मगणो ऋद्धिकार्य यगणः सुखसम्पदो धत्ते । रगणो ददाति रमणं 'सगणोदेशाद् विवासयति।। ४३ ।। १ ग. बोधिका । २ ग. गण्डु । ३ ग. परमोपासनेन । ४. ग. नास्ति पाठः । ५. ग. योहल । ६. ख. ग. पृथिवीजलशिखिकालाः गगनं सर्यश्च चन्द्रमा नागः। ७. ग. त्रिगुरु । ८...' ग. जगणो रजमावधात्येव ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy