________________
प० १७-३० ]
१ गाथा - प्रकरण
स्थले शून्ये तद्वद् घटय' गुरुमेवेति नियमो,
૨
लघु सर्वो वर्णो भवति पदमध्ये च शिशुकाः ॥ १७ ॥ मात्राप्रस्तारे खलु यावद्भिः स्यात् कलापूर्तिः । तावन्तो गुरुलघवो देया इत्यनियमः प्रोक्तः ।। १८ ।।
मात्रागणानां नामानि
हर-शशि-सूर्याः शक्रः शेषोप्यहि - कमल - धातृ - कलि-चन्द्राः । ध्रुव-धर्म-शालिसंज्ञाः षण्मात्राणां त्रयोदशैव भिदाः ३ ॥ १६ ॥ इन्द्रासनमथ सूर्यश्चापो हीरश्च शेखरः हिगण- पापगणाविति पञ्चकलस्यैव संज्ञाः गुरुयुग्मः किल कर्णो गुर्वन्तः करतलो भवति । गुरुमध्यमः पयोधर इति विज्ञेयस्तृतीयोऽपि ॥ २१ ॥ आदिगुरुचरण विप्रो लघुभिश्चतुर्भिरेव स्यात् ।
इति हि चतुष्कलभेदाः पञ्चैव भवन्ति पिङ्गलेनोक्ताः ॥ २२ ॥ ध्वज-चिह्न-चिर-चिरालय तोमर - पत्राणि चूतमाले च । रस-वास-पवन-वलया भेदास्त्रिकलस्य लघुकमालम्ब्य ।। २३ ।। करताल-पटह-तालाः सुरपतिरानन्दतूर्यपर्यायाः ।
कुसुमम् । स्युः ।। २० ।।
निर्वाण - सागरावपि गुर्वादित्रिकलनामानि ॥ २४ ॥ सात्विकभावास्ताण्डवनारीणां भामिनीनां च ।
नामानि यानि लोके त्रिलघुगणस्यैव तानि जानीत ।। २५ ।। नूपुर- रसना चामर-फणि-मुग्धाभरण - कनक- कुण्डलकम् । वक्रो मानस-वलयौ हारावलिरिति गुरोश्च नामानि ॥ २६ ॥ सुप्रिय-परमौ कथितो द्विलघोरिति नाम संक्षेपात् । अथ कथयामि चतुष्कलनामान्यन्यानि पिङ्गलोक्तानि * ॥ २७ ॥ सुरतलता गुरुयुगलं कर्णसमानेन रसिक - रसलग्नौ । लम्बित - सुमति - मनोहर-लहलहितानां च नाम्नापि ॥ २८ ॥ कर-पाणि-कमल-हस्ताः प्रहरण-भुजदण्ड- बाहु - रत्नानि । वज्रं गजभुजयोरप्याभरणं स्याच्चतुष्कले संज्ञाः ॥ २६ ॥ कर्णपर्यायिनः शब्दाः गुरुयुग्मस्य वाचकाः । हस्तायुधस्य पर्यायाः गुर्वन्तस्यैव बोधकाः ॥ ३० ॥
१. ग. पूर्व रचय | २. ख. नियतं । ३. ग. भेवः । ५. ग. बच्चो ।
* टि. द्रष्टव्यं - प्राकृतपैंगलम् । ( परि० १, गाथा २३ - ३२ ) ।
[ ३
४. ख. ग. नामानि ।