SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे ननु कश्चिदेवांशोऽत्र दुष्टी न पुनः सर्वोऽपीति चेत् , हि यत्रांशे दोषः सोऽकाव्यत्वप्रयोजकः, यत्र ध्वनिः स उत्तमकाव्यत्वप्रयोजक इत्यंशाभ्यामु. भयत आकृष्यमाणमिदं काव्यमकाव्यं वा किमपि न स्यात् । न च कंचिदेवाचकत्वमथ वा विधेयस्य अविमर्शो यस्मिन् सः (व्यधिकरणबहुव्रीहिः) । अविमृष्टविधे. यांश इत्यस्याऽर्थस्तु अविमृष्टः = प्राधान्येन अनिदिष्टः ( अप्रतिपादितः ) विधयांऽशो यस्मिन् सः । एवं च अस्य श्लोकस्य="न्यक्कारो ह्ययमेवे"त्यादिरूपस्य, विधेयाऽविमर्शदोषदुष्टतया काव्यत्वं = काव्यलक्षणाऽवच्छिन्नत्वं, न स्यात् प्रत्युत = एतद्वैपरीत्येन, ध्वनित्वेन = व्यङ्गयाऽर्थप्रधानत्वेन, उत्तमकाव्यता, "वाच्याऽतिशयिनि व्यङ्गये ध्वनिस्तत्काव्यमुत्तमम् ॥" (४-१) इति लक्षणाऽनुसारेणेति भावः । अत्र ध्वनित्वं प्राचुर्येणाऽवभासते। तथाहि-"अरय" इति बहुवचनस्य, "तापस" इत्येकवचनस्य, "अव" इति सर्वनाम्नः, "निहन्ति" इति "जीवति" इति च तिङः, "अहो" इत्य. व्ययस्य "ग्रामटिका" इति करूपतद्धितस्य "विलुण्ठन” इति व्युपसर्गस्य "भुजः" इति बहुवचनस्य च व्यञ्जकत्वम् । ग्रन्थकारेणैव चतुर्थपरिच्छेदे श्लोकस्याऽस्य ध्वनित्वप्रदर्शनेनोत्तमकाव्यताङ्गीकृता। तस्मात् = हेतोः, अध्याप्तिः = अव्याप्तिर्नाम, लक्षणदोषः = लक्षणत्वाप्रयोजनत्वरूपो दोषः । अयं भाव: ।। अव्याप्त्यतिव्याप्त्यसम्भवदोषरहितत्वे सति असाधारणधर्मत्वं लक्षणम् । तत्र लक्ष्य कदेशाऽवृत्तिरव्याप्तिर्नाम लक्षणदोषः । यथा गोः कपिलत्वमिति लक्षणे कृते लक्ष्या = गौः, तदेकदेशः शुक्ला गौः, तत्र अवृत्तित्वं कपिलस्य, अतः गो: कपिलत्के अव्याप्तिर्नाम लक्षणदोषः । एवं च कपिलत्वं गोनं लक्षणं प्रत्युत लक्षणाऽभासः । तथैव प्रकृतेऽपि लक्ष्यं = काव्यं, तदेकदेशः निर्दोषत्वावच्छिन्नशब्दाऽर्थयुगलं, तत्राऽवृत्तित्वं दोषत्वाऽवच्छिन्नशब्दाऽर्थ युगलस्य अतः अव्याप्ति म लक्षणदोषः । विहितं दोषमुद्धर्तुमाशङ्कते-नन्विति । ननु अत्र=अस्मिन्काव्ये, कश्चित् एव= अल्प एव, अंशः भागः दुष्टः = दोषयुक्तः, न पुनः सर्व एव = सकल एवांशो दोषयुक्त इति चेत् ? दूषयति-तहि, यत्र = यस्मिन्, अंशे दोषः = न्यारोह्ययमेव, इति स्वर्गग्रामटिकेत्यत्र च विधेयाऽविमर्श:, सः= अंशः, अकाव्यत्वप्रयोजकः = काव्यलक्षणविघातकः, यत्र-यस्मिन् अंश, ध्वनिः = व्यङ्गयार्थप्राधान्यं, स उत्तमकाव्यत्वप्रयोजक:= काव्योत्कर्षनिर्वाहक इति,अंशाभ्यां दुष्टाऽदुष्टभागाभ्याम, उभयत: उभयत्र, आकृष्यमाणं इस पद्यमें कुछ ही अंश दुष्ट ( दोषयुक्त ) है, संपूर्ण अश नहीं, ऐसा कहें तो जिस अंशमें दोष है वह काव्यलक्षणका निवारक होमा और जिस अंशमें ध्वनि है वह काव्यके उत्कर्षका निर्वाहक होगा। इस प्रकार दो विरोधी अंशोंसे खींचा जाकर गह काव्य वा अकाव्य कुछ भी नही होगा। वास्तवमें श्रुतिदुष्ट आदि दोष काव्यके किसी अंशको ही दूषित करते हैं यह बात भी नहीं, वे संपूर्ण काव्यको ही दूषित करते हैं।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy