SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः वांशं काव्यस्य दूषयन्तः अतिदुष्टादयो दोषाः, किं तहि सर्वमेव काव्यम् । तथाहि काव्यात्मभूतस्य रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते । अन्यथा नित्यदोषानित्यदोषत्वव्यवस्थाऽपि न स्यात् ! यदुक्तं ध्वनिकृता 'अतिदुष्टादयो दोषा अनित्या ये च दर्शिताः। ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः ॥ इति । व्यावर्यमानं सत्, इदं = न्यक्कारो ह्ययमेवेत्यकारकं पद्य काव्यम् अकाव्यं वा, किमपि= एकतरदपि, न स्यात् । ननु एकदेशविकृतमनन्यवद्भवतीति न्यायेन स्वल्पाऽशेन न सर्वांशो दूषितो भवति इति समाधातुमुपक्रमते-न चेति । श्रुतिदुष्टादयः = दुःश्रवत्व. प्रभृतयः, दोषाः, काव्यस्य, कंचिदेव अंशं = स्वल्पमेव भागं, दूषयन्तः = दोषमापादयन्तः, भवन्ति, इति न, अपि तु सर्वम् एव = सकलम् एव अवयविभूतं काव्यं दूषयन्ति इति भावः । उक्तमर्थमुपपादयति-तथा होति । काव्यात्मभूतस्य = काव्यस्य आत्मभूतस्य ( स्वरूपभूतस्य ) रसस्य, अनपकर्ष. कत्वे = अपकर्षाऽवर्तृत्वे सति, तेषां - श्रुतिदुष्टादीनां, दोषत्वम् अपि = दूषणत्वमपि, न अङ्गीक्रियते=न अभ्युपगम्यते, "रसाऽपकर्षका दोषा" इति दोषलक्षणत्वादिति भावः । अन्यथा = सिद्धान्तस्याऽस्य अनङ्गीकारे, नित्यदोषाऽनित्यदोषत्वव्यवस्था अपिअयं नित्यदोषः, अयम् अनित्यदोष इत्याकारिका व्यवस्था (मर्यादा), न स्यात्-नो भवेत अयं भाव: श्रुतिकटुप्रभृतयो दोषा अनित्यदोषाः, रौद्रवीरादिरसेषु अतिकट्वादिदोषाणां गुणत्वं स्वीकृतं, तथा च श्रुतिकट्वादीनां वन्यात्मके शृङ्गारादावेव दोषहेतुत्वमभ्यु.. पगतम् । अस्मिन्मथै आत्मसम्मति प्रदर्शयति- यदक्तमिति । ध्वनिकृता-आनन्दवर्धनाचार्येण । श्रुतीति । श्रुतिदुष्टादयो ये अनित्या दोषा दर्शिताः, ते ध्वन्यात्मनि शृङ्गारे एव हेया इत्युदाहृता इत्यन्वयः । श्रुतिदुष्टादयः = श्रुतिदुष्टाऽर्थदुष्टादयः ये अनित्या दोषा दर्शिताः । ते दोषाः ध्वन्यात्मनि शृङ्गारे एव-ध्वनिस्वरूपे शृङ्गारे एव, हेया परित्याज्या इति उदाहृताःकथिता इत्यर्थः । उक्तलक्षणे दूषणान्तरमुद्भावयितुमुपक्रमते-किचेति । जैसेकि काव्यका आस्मभूत जो रस है उसका अपकर्ष न करें तो उन श्रुतिदुष्ट आदियोंको दोष नहीं माना जाता है । यह नहीं मानेंगे तो नित्य दोष और अनित्य दोष इनकी व्यवस्था भी नहीं होगी जैसाकि ध्वनिकार ( आनन्दवर्धनाचार्य ) ने कहा है-श्रुतिदुष्ट आदि जो अनित्य दोष दिखलाये गये हैं, वे ध्वन्यात्मक शृङ्गारमें ही त्याज्य बतलाये गये हैं। लक्षणमें "अदोषो" इस पदका निवेश करनेसे काव्यका विषय अत्यन्त विरल वा निविषय होगा सर्वथा निर्दोष तो असंभव ही है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy