________________
साहित्यदर्पणे
किन एवं काव्यं प्रविरलविषयं निर्विषयं वा स्यात्, सर्वथा निर्दोषस्यैकान्तमसंभवात् ।
१२
नवीषदर्थे नमः प्रयोग इति चेत्तर्हि 'ईषदोषौ शब्दार्थों काव्यम्' इत्युक्ते निर्दोषयोः काव्यत्वं न स्यात् । सति संभवे 'ईषदोषौ' इति चेत्, एतदपि काव्यलक्षणे न वाच्यम् रत्नादिलक्षणे कीटानुवेधादिपरिहारवत् । नहि कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः किन्तूपादेयतारतम्यमेव
=
किंच = लक्षणे "अदोषी" इति पदस्य निवेशे सति, काव्यं लक्ष्यं प्रविरलविषयं = स्वल्पविषयं पदाद्यधिकरणेषु दोषाणां बाहुल्यात्काव्यस्य विषयोऽपि स्वल्पः स्यात् या निर्विषयं कस्यापि दोषस्य सत्त्वसंभवात् काव्यं निर्लक्ष्यं स्थात्, अत्र युक्ति प्रदर्शयति-सर्वथा==सर्वैः प्रकारैः, निर्दोषस्य दोषरहितस्य शब्दाऽर्थयुगलस्य, एकान्तम् = अत्यन्तम् असंभवात् तथा सति निरुक्तलक्षणे न केवलमव्याप्तिः प्रत्युत लक्ष्यमात्रावर्तनात् असंभवोऽपि लक्षणदोष: स्यादिति भावः ।
पुनः शङ्कते - नत्रः षडर्था भवन्ति । ते हि -
" तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं, विरोधश्च ननर्थाः षट् प्रकीर्तिताः ॥”
ततश्च अनुदरा कन्या इतिवत् "अदोषी" इत्यत्रापि ईषदर्थे नञः प्रयोग इति चेतहि "ईषद्दोषी शब्दाऽय काव्यम्” इति लक्षणं स्यात्तदा निर्दोषयोः शब्दार्थयोः काव्यत्वं न स्यात् !
पुनराशङ्कते - सतीति । सति संभवे दोषस्येति शेषः । " ईषद्दोषी" इति चेत् । - दूषयति - एतत् अपि = दोषस्य संभवे सति " ईषद्दोषी शब्दाऽय काव्यम्” इति चेतुः एतत् = संशोधनम् अपि काव्यलक्षणे अवाच्यं न कथनीयम् । रत्नादिलक्षणे कीटाऽनुवे. धादिपरिहारवत् । अयं भावः । कीटेन अनुविद्धेऽपि रत्ने रत्नत्वं यथा तिष्ठति तथैव दोष सत्यपि शब्दार्थयुगले काव्यत्वं तिष्ठत्येवेति भावः । परं कीटानुविद्धं रत्नं जना यथा परिहरन्ति तथैव सदोषं काव्यमपि जनाः परिहरेयुः इति भावः । उक्तमयं समर्थयतेन हीति । हि अस्मात्कारणात्, कीटाऽनुवेधादयः = कीटदष्टत्वादयो दोषाः, रत्नस्य रत्नत्वं, व्याहन्तुं = निवारयितुं, न ईशाः = न समर्थाः, किंतु उपादेयतारतम्यं = उपादेयस्य ( रत्नादेः ) तारतम्यं ( न्यूनाधिक्यम् ) एव कतु = विधातुम्, ईशा::
-
"अदोषी" यहाँपर अल्पार्थक नञ्प्रयोग मानकर अल्प दोषवाले शब्द और अर्थ में काव्यका लक्षण घटित नहीं
अर्थ काव्य है" ऐसा कहें तो दोषरहित शब्द और होगा | 'सति सम्भवे' इनका निवेश करके दोषों की शब्द और अर्थ काव्य हैं यह भी नहीं कहना चाहिए आदिका परिहार नहीं किया जाता है उसी तरह काव्यके
।
संभावना होने पर कम दोषवाले
रत्नके लक्षण में जैसे कीटाऽनुवेध
लक्षण में भी दोष का परिहार