________________
प्रथमः परिच्छेदः
धिग्धिक्छऋजितं, प्रबोधितवता किं कुम्भकर्णन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिभुजैः' ॥ इति ।
अस्य श्लोकस्य विधेयाबिमर्शदोषदुष्टतया काव्यत्वं न स्यात् । प्रत्युत ध्वनि (स) त्वेनोत्तमकाव्यताऽस्याङ्गीकृता, तस्मादव्याप्तिलक्षणदोषः। उच्छ्वसित्येवेति भावः । शनजितं = घनादं धिक्, धिक्, येन पुरा इन्द्रोऽपि रणमुखे पराजितः तं धिक, धिक्, शक्रजितो निन्दा इति भावः । प्रबोधितवता = मासषट्कं यावन्निद्रातिशयमनुभूतवता, सम्प्रति प्रयत्नाऽतिशयेनोत्थापितेनेति भावः । कुम्भकर्णेन वा = विक्रान्ताऽग्रसरेण मन्मध्यमाऽनुजेन वा, किम् = कि फलं संजातमिति शेषः । कि बहुना-स्वर्गग्नामटिकाविलुण्ठनवृथोच्छुनः स्वर्गरूपक्षुद्रग्रामविधूननव्यर्थस्फीतः, एभिः = सनिकृष्टस्थितः, भुजः = बाहुभिः, विंशतिसंख्यकर्भारभूतर्मम बाहुभिः, कि=fक फलं, न कियपीति भावः ॥
___ अस्य-पूर्वोक्तस्य, श्लोकस्य = पद्यस्य, विधेयाऽविमर्शदोषदुष्टतया = अविमृष्टः विधेयांशदोषयुक्ततया, काव्यत्वं = काव्यलक्षणाक्रान्तत्वं, न स्यात् न भवेत्, प्रत्युत - वपरीत्ये, ध्वनित्वेन = व्यङ्गयस्य वाच्याऽतिशयित्वेन; अस्य = पूर्वोक्तस्य पद्यस्य उत्तमकाव्यता=अनिकाव्यता, अङ्गीकृता। तस्मात् = कारणाद, अव्याप्ति: लक्ष्यका देशाऽवृतित्वरूपा, लक्षणदोषः = लक्षणदूषणम् । अयं भावः । पद्यमिदं ध्वनिकाव्यत्वे नोत्तमं काव्यं, भवता च लक्षणघटकशब्दे "अदोषी शब्दाय?" इति प्रतिपादितम् । परमत्र विधेयाऽविमर्शी नाम दोषः । तस्य लक्षणमुद्देश्यविधेयपदपोवोपर्यविरहत्वम् । सच द्विविधः पदगतो वाक्यगतश्चेति, अत्रोपयगतो दोषः, यथा न्यक्कारः अयम् एव इत्यत्रेदमा उद्देश्यस्य 'न्यक्कार' पदेन विधेयस्याऽवगमो भवति, परमत्र तत्पौर्वापर्यविरहेण पदद्वयस्य क्रमविपर्ययेण स्थापितत्वाद् वाक्यगतो विधेयाऽविमर्शः । एवं च 'स्वर्गग्रामटिके"त्यत्र उच्छूनत्वमुद्दिश्य वृथात्वस्य विधेयत्वं समासे गुणीकृतमतोऽत्र पदगतो विधेयाऽविमर्शः । विधेयाऽविमर्शस्यैव नामान्तरम् अविमृष्टविधेयोऽश इति। पदाऽर्थस्तु विधेयस्य अविमर्शः= अनिर्देशः, औचित्यतः स्थापनाऽभाव: इति भावः । लक्षणया पदस्याऽस्य दोषविशेष। जगाये गये कुम्भकर्णसे भी क्या हुआ ? स्वर्गरूप छोटे गाँवको लूटनेसे व्यर्थ सूजे गये इन ( मेरे ) हाथोंसे भी क्या हुआ?
यहाँपर "अयम् एव" यह उद्देश्यवाचक पद पीछे और "न्यक्कारः" यह विधेय पद पहले प्रयुक्त हुआ है अत: वाक्यगत "विधेयाऽविमर्श" दोष हुआ है, और "विलुण्ठनवृथोच्छूनः” यहाँ पर "उद्देश्य" "उच्छून" पद पीछे और "वृथा" यह विधेय पद पहले होनेसे पदगत विधेयाविमर्श दोष हुआ है इसलिए यह श्लोक विधेयाऽविमर्श दोष रहनेसे निर्दोष नहीं है अतः यह काव्य नहीं होगा। किन्तु ध्वनिके रहनेसे यह उत्तम काव्य माना गया है, अतः इस लक्षणमें अव्याप्ति नामका लक्षण दोष हैं ।