SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे एतचिन्त्यम्। तथाहि-यदि दोषरहितस्यैव काव्यत्वाङ्गोकारस्तदा-- - 'न्यक्कारो अयमेव मे यदरयस्तत्राऽप्यसौ तापसः, सोऽप्यत्रैव निहन्ति राक्षसकुलं, जीवत्यहो रावणः । . लकती= स्फुटाऽलङ्काररहितो, शब्दाऽयों = वाचकवाच्यो, तद्-काव्यम्, इति । पत्र "शब्दाऽयो" इदं काव्यशरीरं, तस्य. विशेषणानि-"अदोषो" "सगुणो" "साऽलङ्कारों" इति । शेषं पश्चादभिधास्यते । अत्र काव्यत्वं व्यासस्य वृत्तितया शब्दार्थोभयपर्याप्तम् । पूर्वोक्त लक्षणे "अदोषो" इति लक्षणस्थमंशं दूषयितुमुपक्रमते-एतच्चिन्त्यमिति । एतद लक्षणं, चिन्त्यं%3Dविचारणीयम् । तथाहि-दोषरहितस्य = दुःश्रवत्वादिदोषरहितस्य, शब्दाऽयंयुगलस्येतिशेषः काव्यत्वाऽङ्गीकारो यदि-काव्यत्वस्वीकारश्चेत् । तदातहिं । सदोषत्वेन शब्दार्थयुगलेव्याप्तिदोषं प्रदर्शयितु लक्ष्यविशेषमुदाहरति-न्यक्कार इति। हनुमन्नाटकस्थं पमिदम् रामविक्रमेण लङ्कायां नितान्तमाक्रान्तायां निदाऽतिशयमापनस्य रावणस्य उक्तिरियंपक्कार इति । अयमेव न्यक्कारो हि । यत् मे अरयः । तदाऽपि असौ तापसः, सोऽपि बत्रय राक्षसकुलं निहन्ति; अहो ! रावणो जीवति । शक्रजितं धिक् धिक् । प्रबोधितवता कुम्भकर्णेन वा किम् ? स्वर्गग्रामटिकाविलुण्डनवृषोच्छून; एभिः भुजैः किम् ? इत्पन्वयः । अयमेव न्यक्कारः = तिरस्कारः, हिनिश्चयेन, "हि हेताववधारणे" इत्यमरः । न्यक्कार प्रदर्शयति-यत् = यस्मात् कारणाद, मे = रावणस्य, बरयः = शत्रवः, मम , अरिः अनौचित्यप्रयोजकः, तत्रापि न अरिः, नैवाऽरी प्रत्युत परयः प्रचुरसंख्यका अरय इति ध्वनिः । तत्रापि अरिष्वपि, प्रधानरूपेण असौ = अरिः, राम इति भावः । तापसः = तपस्वी, न तु कोऽपि विक्रान्तः । सोऽपि = तापसरूपोऽपि अरिः, एक एव । अत्र एव = अस्मिन्नेव, मदधिष्ठिते लक्षाप्रदेशे एव, न तु दण्डकारण्यादा वेवेति शेषः । राक्षसकुलं = राक्षसंवंशं, न राक्षसं नो राक्षसी, नैव राक्षसान् अपि, प्रत्युत राक्षसानां कुलम् = शम् एव, निहन्ति =नो हन्त्येव, निःशेषेण व्यापादयतीति ध्वनिप्रकर्ष।। अहो = आश्चर्यम्, तथापि रावणो जीवति = प्राणान् धारयत्येव, तादृशे व्यतिकरेऽपि यह मत विचारणीय है, दोषरहित शब्द और अर्थको ही काव्य मानेंगे तो रावण कहता है-मेरे लिए शत्रुओं का होना ही तिरस्कार है, उस पर भी यह तपस्वी मेरा शत्रु है, उसपर भी यहींपर ( लङ्क में ही ) राक्षसोंके कुल का विनाश कर रहा है । रावण जी रहा है, आश्चर्य है । इन्द्रको जीतनेवाले मेघनादको धिक्कार है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy