SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः 'त्रि वर्गसाधनं नाट्यम्' इति च । विष्णुपुराणेऽपि-- 'काव्यालापाश्च ये केचिद् गीतकान्यखिलानि च । .. शब्दमूर्तिधरस्यते . विष्णोरंशा महात्मनः ॥' इति । तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते । एतेनाभिधेयं च प्रदर्शितम्। त्किस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह-'तददोषौ शब्दार्थों सगुणावनलंकृती पुनः कापि' इति । त्रिवर्गेति । नाटय = नटप्रयोज्यं काव्य, दृश्यकाव्यं नाटकादिकमिति भावः । त्रिवर्गसाधनम् धर्माऽर्थकामरूपस्य त्रिवर्गस्य, साधनं-जननकारणम् । विष्णुपुराणेऽपिकाव्यालापाश्चेति । ये केचित् काव्यालापाः, अखिलानि गीतकानि च एते शब्दमूर्तिधरस्य महात्मनो विष्णोः अंशाः । ये केचित् = दृश्यरूपाः श्रव्यरूपा वा, काव्यालापा रसाभिव्यजकाः शब्दार्थाः। एवं च अखिलानि-समस्तानि, गीतकानि च = गीतानि च, एते = इमे, सर्वेऽपि, शब्दमूर्तिधरस्य = शब्दब्रह्मणः । महात्मनः= महत्त्वसंपन्नस्य, भगवतो विष्णोः = नारायणस्य, अंशाः = अवयवाः । तेनेति । तेन = चतुर्वर्गफलप्राप्तिसाधनत्वेन, तस्य = पूर्वोक्तस्य, काव्यस्य = कविकर्मणः, स्वरूपं = स्वेन रूप्यते इतरव्यावर्तकतया ज्ञाप्यत इति, स्वं लक्ष्यपदार्थः रूप्यते = लक्ष्यते अनेन इति वा स्वरूपं = लक्षणं, निरूप्यते प्रतिपाद्यते । एतेन%D "चतुर्वर्गफलप्राप्तिः" इत्यादि श्लोकेन, अभिधेयम् = काव्यस्य विषयादिकम्, चशब्देन प्रयोजनसम्बन्धयोर्लाभः। खण्डनार्थ मम्मटभट्टसम्मतं काव्यलक्षणं प्रदर्शयितुमुपक्रमते-तदिति । तत = तस्मात्कारणात, तावत् = आदो, किस्वरूपं = किंलक्षणं काव्यम्, इत्यपेक्षायाम् = बाकाङ्क्षायाम, कश्चित्-काव्यप्रकाशकार इति भावः । आह-प्रतिपादयति-तरिति । पूर्वपक्षरूपे काव्यप्रकाशकारसंमतं काव्यलक्षणमुपस्थापयति । अदोषी = दुःश्रवादिदोषरहितो, सगुणी = प्रसादादिगुणोपेतो, पुनः = भूयः, क्वाऽपि = कुत्रचित्, अन नाट्य अर्थात् दृश्य काव्य, त्रिवर्ग (धर्म, अर्थ और काम ) का साधन (हेतु) है ( अग्निपुराण )। विष्णुपुराणमें भी है-काव्य और समस्त गीत, ये सब शब्दरूप मूर्तिको धारण करनेवाले महात्मा विष्णुके अंश हैं। इस कारणसे ( चतुर्वर्गका साधन होनेसे) उस काव्यके स्वरूपका निरूपण किया जाता है। इस कारिकासे काव्यका अभिधेय (विषय ) और "च" शब्दसे प्रयोजन और सम्बन्धका प्रदर्शन किया गया। ___ अब काव्यका क्या लक्षण है ? ऐसी आकाङ्क्षा होनेपर कोई ( काव्य प्रकाशन कार ) कहते हैं-"दोषरहित, गुणयुक्त और अलङ्कारोंसे अलङ्कृत परन्तु कहींपर स्फुट अलङ्कारसे युक्त न हो तो भी ऐसे शब्द और अर्थको काव्य कहते हैं"।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy