________________
साहित्यदर्पणे
ननु तर्हि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् । कटुकोषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयस्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात् ? किञ्च । काव्यस्योपादेयत्वमग्निपुराणेऽप्युक्तम्
'नरत्वं दुर्लभं लोके, विद्या तत्र सुदुर्लभा।
कवित्वं दुर्लभं तत्र, शक्तिस्तत्र सुदुर्लभा ।।' इति । पुनराशजूध समाधत्ते-ननु ताँति । यद्यवं तहिं अधिकारिभेदेन कार्यभेदः, परिणतबुद्धिभिवेदशास्त्रेभ्यः, सुकुमारबुद्धिभिः काव्यत एव चतुर्वर्गफलप्राप्त्यर्थं यतनीपमिति मनसिकृत्य प्रतिपादयति-परिणतबुद्धिभिः = परिपक्वमतिभिः, वेदशास्त्रेषु, सत्सु विद्यमानेषु, काव्ये-कविकर्मणि, किमिति = किमर्थ, यत्नःप्रयासः, करणीयः = कर्तव्यः, इत्यमाशय समाधत्ते-इत्यपि न वक्तव्यं-न कथनीयम् । यथा कटुकोषधोपशमनीयस्य तिक्तभेषजनिवारणीयस्य, रोगस्य = रुजः, सितशर्करोपशमनीयत्वे = सितशर्करया ( शुक्लसितया ) उपशमनीयत्वे ( निवारणीयत्वे ), कस्य वा रोगिणः = बामयाविनः, सितशर्कराप्रवृत्तिः स्वादुसिताग्रहणचेष्टा, साधीयसी साधुतरा न स्यात् । इत्यमेव सुकुमारमतीनामिव परिणतबुदीनामपि सरसतया अनायासादेव चतुर्वर्गफल'प्राप्तिसाधनभूते काव्ये प्रवृत्तिः कथमिव साधुतरा न स्यादिति भावः ।
कि चेति । काव्यस्य उपादेयत्वं प्राह्यत्वम् । . नरत्वमिति । लोके-भुवने, नरत्वं मनुष्यत्वं, दुर्लभं= दुष्प्राप्यम् । चतुरशीतिमक्षसंख्यकासु योनिषु नरयोनिदुर्लभेति भावः । तत्र-नरत्वेऽपि, विद्या = शास्त्रबोधः, सुदुलंमा = आतशयदुष्प्राप्या, नरत्वे लब्धेऽपि शास्त्रप्राप्ति: जन्मान्तरस्कृताऽतिश-, यादेव जायन इति भावः । तत्र = विद्याप्राप्तो जातायामपि, कवि वं = काव्यकर्तृत्वं, दुर्लभं, कवित्वप्राप्तिरपि जन्मान्तरसुकृतपुञ्जपरिपाकादेव भवतीति भावः । तत्र-कवित्वे येन केनाऽपि प्रकारेण लब्धेऽपि शक्तिः = कवित्वबीजरूपः संस्कारविशेषः, सुदुर्लभा = अत्यन्तदुष्प्राप्या निरतिशयपुण्यपुञ्जपरिपाकादेव भवतीति भावः ।
प्रश्न-तब तो परिपक्व बुद्धिवालोंको वेद और शास्त्र आदियोंके रहनेपर काव्यमें क्यों यत्न करना चाहिए !
उत्तर-ऐसा नहीं कहना चाहिए, कड़वी दवासे हटाये जानेवाला रोग यदि चीनी आदिसे दूर हो तो किस रोगीको चीनी आदिमें प्रवृत्ति बेहतर नहीं होगी? (इसी तरह परिपक्व बुद्धिवालोंको भी काव्यमें प्रवृत्ति क्यों नहीं होगी? )।
काव्यको ग्रहणीयताको अग्निपुराणमें भी कहा है
लोकमें मनुष्य होना दुर्लभ है, मनुष्य होनेपर भी विद्या अत्यन्त दुर्लभ है । विद्याके होनेपर भी कवि होना दुर्लभ है, कवि होनेपर भी शक्ति ( प्रतिभा ) अत्यन्त दुर्लभ है ।