________________
प्रथमः परिच्छेदः,
1
तज्जन्यधर्मफलाननुसंधानात् माक्षोपयोगिवाक्ये व्युत्पत्याधायकत्वाच्च । चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेवं परिणतबुद्धीनामेव जायते । परमानन्दसंदोहजनकतया सुखादेव सुकुमारबुद्धोनामपि पुनः काव्यादेव |
मोक्षप्राप्तिश्च एतज्जन्यधर्म फलाऽननुसन्धानात् = एतज्जन्यः = सत्काव्य निषेवणोत्पन्नः, यो धर्म:, तत्फलस्य अनुसन्धानात् = अनपेक्षणात्, निष्कामकर्माश्रयणादिति भावः । मोक्षोपः योगिवाक्ये उपनिषदादिस्थ पदसमूहे, व्युत्पत्याधाय कत्वाच्च विशिष्टज्ञानसाधकत्वाच्च । काव्यप्रकाश कारेण मम्मटभट्ट ेनाऽपि -
"काव्यं यशसेऽर्थकृते, व्यवहारविदे, शिवेतरक्षतये ।
सद्यः
इति काव्यस्य षड्विधं प्रयोजनं प्रदर्शितम् । इत्यं संक्षेपतोंऽत्र काव्यस्य अनुबन्धचतुष्टयं प्रदर्शितम् । तद्यथा -
"विना विषयसम्बन्धी तथैवाऽर्थाऽधिकारिणी ।
अव्याख्येयो भवेद् ग्रन्थस्तस्मादेतच्चतुष्टयम् ॥"
परनिर्वृतये, कान्तासम्मिततयोपदेशयुजे ॥” १२ ।
तथा
चात्र शब्दार्थ काव्यलक्षणरसठवन्यलङ्का रगुणदोषादयो विषयाः तेः सहास्य ग्रन्थस्य प्रतिपाद्यप्रतिपादक मावः सम्बन्धः, चतुर्वर्गफलप्राप्तिरूपोऽर्थः प्रयोजनमिति भावः । अधीत काव्य कोशादिरनधीताऽलङ्कारशास्त्रो जनोऽत्राधिकारीति एवे अनुबन्धा आपाततो दर्शिता इत्यवधेयम् ।
ननु चतुर्वर्गफलप्राप्तिर्वेदशास्त्रेभ्योऽपि जायते तर्हि किमिति काव्ये श्रमः कर्तव्या इत्याशङ्कय समाधत्ते – चतुर्वर्गफलप्राप्तिर्हति । चतुर्वर्गफलप्राप्तिर्वेदशास्त्रेभ्योषि भवति परं नीरसतया दुःखादेव तथा परिणतबुद्धीनाम् = परिपक्वमतीनाम् एव जायते; एतद्वैपरीत्येन परमानन्दसन्दोहजनकतया लोकोत्तरहर्ष समूहोत्पादकतया सुखादेव = अनायासादेव, सुकुमारबुद्धीनाम् = राजकुमारादीनाम् अपि कठोरशास्त्राऽध्ययन भीरूणामपीति भावः । काव्यादेव विनाऽऽयासं चतुवर्गफलप्राप्तिर्भवति, अतः काव्ये प्रवृत्ति: कर्तव्येति सिद्धम् ।
मोक्ष प्राप्ति होती है । अथवा मोक्ष के उपयोगी वाक्य (उपनिषत् आदि) में व्युत्पत्ति कराने से भी ( काव्यसे मोक्षकी प्राप्ति हो जाती है ) ।
वेद और शास्त्रोंसे चतुर्वर्गकी प्राप्ति नीरसता से और दुःखसे ही और परिपक्व बुद्धिवालोको ही होती है । उत्तम आनन्द समूहका जनक ( उत्पादक ) होनेसे सुखसे ही सुकुमार बुद्धिवालों को भी काव्यसे ही चतुर्वर्गकी प्राप्ति हो जाती है ।