________________
उक्तं च (भामहेन ) -
साहित्यदर्पणे
'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम् ॥ इति ।
किन काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, 'एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति' इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव । अर्थप्राप्तिश्च प्रत्यक्ष सिद्धा । कामप्राप्तिश्चार्थद्वारेव । मोक्षप्राप्तिश्चै
यदाहु:- "प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्त्रमिति कथ्यते ।।" इति ।
अत्र प्राचीनानां सम्मति प्रदर्शयति-उक्तं चेति । धर्मार्थेति । साधुकाव्यनिषेवणं धर्मार्थकाममोक्षेषु कलासु च वैचक्षण्यं कीर्ति प्रीति च करोतीत्यन्वयः । साधुकाव्यनिषेवर्ण = साधुकाव्यस्य ( सत्काव्यस्य ) निषेवणम् ( परिशीलनं करणं च ) । चतुरंगें कलासु = नृत्यगीतादिचतुःषष्टिभेदासु च वैचक्षण्यं = पाण्डित्यं तथा कीर्ति = यशः सत्काव्य परिशीलनकरणजनितमिति भावः एवं च प्रीति च = अनुरागं च, करोति = विदधाति । पचमेतत्काव्यालङ्कारकर्तुं राचार्य भामहस्य बोद्धव्यम् ।
1
उक्तमर्थं विवृणोति - किं चेति । भगवन्नारायणस्य, चरणाऽरविन्दस्तवादिना = पादकमलस्तोत्रादिना । एकोऽपि शब्दः सुप्रयुक्तः = शब्दशुद्धिपूर्वकं प्रयोगविषयींकृतः, सम्यग्ज्ञातः = प्रकृतिप्रत्ययविवेचनपूर्वकं ज्ञानविषयीकृतः सन्, स्वर्गे = परलोके; लोके = इह लोके च कामधुक् = कामान्दोग्धीति, इच्छापूरक इत्यर्थः । इत्यादि वेदवाक्येभ्यश्च = भाष्यकाराद्य, घृतश्रुतिवाक्येभ्यश्च सुप्रसिद्धा । अर्थप्राप्तिश्च = काव्याद्धनप्राप्तिरभीष्टप्राप्तिञ्च, प्रत्यक्ष सिद्धा, श्रीहर्षादेर्धावकबाणभट्टादीनामर्थ प्राप्तिरिवेति भावः । अर्थप्राप्तिः = प्रयोजन सिद्धिः सूर्यशतकादिनिर्माणेन मयूरादीनां कुष्ठादिरोगनिवृत्त्या 'स्वास्थ्यला भरूपप्रयोजनसिद्धिः । कामप्राप्तिः = विषयभोगप्राप्तिश्च, अर्थद्वारंव ।
कहा भी गया है
उत्तम काव्यकी सेवा धर्म, अर्थ, काम और मोक्ष ( चतुर्वर्ग) में तथा कलाओंमें विद्वत्ता और कीर्ति और प्रसन्नताको उत्पन्न करती है ।
/
काव्यसे धर्मकी प्राप्ति भगवान् नारायणके चरणकमलोंके स्तोत्र आदिसे तथा बच्छी तरह से जाना गया और प्रयोग किया गया एक भी शब्द इस लोक में और स्वर्गलोकमें कामधुक् = इच्छाको पूर्ण करने वाला होता है इत्यादि वेदवाक्योंसे सुप्रसिद्ध ही है | काव्यसे अर्थ = धन वा अभीष्ट विषयकी प्राप्ति प्रत्यक्षसिद्ध है । काम - ( विषय सुख ) की प्राप्ति अर्थद्वारा होती हैं । काव्यसे उत्पन्न धर्मके फलकी अपेक्षा न करनेसे