________________
प्रथमः परिच्छेदः
चतुर्वर्गफलप्राप्तिः सुखादसधियामपि । काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ॥ २ ॥
चतुर्वर्गफलप्राप्तिर्हि काव्यतो 'रामादिवत्प्रवर्तितव्यं न रावणादिवत्' इत्यादि कृत्याकृत्य प्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतेव ।
=
.
= प्रया•
उपक्रम्यमाणस्य, ग्रन्थस्य = साहित्यदर्पणस्य, काव्याङ्गतया, काव्यस्य = : रघुवशादे:अङ्गतया : = अप्रधानकारणतया, काव्यफलैः एव = अङ्गिभूतस्य काव्यस्य, फलैः एव चतुर्वर्गादिरूपैः साध्यैः एव फलवत्वं फलसहितत्वम् इति = अस्माद्धेतोः, काव्यफलानि = अङ्गिभूतस्य काव्यस्य फलानि = कार्याणि आह = प्रतिपादयति । अयं भावः, दर्शपौर्णमासादयो यागा अङ्गिभूताः, प्रयाजादयो यागा अङ्गभूताः, "फलवत्सनिधी अफलं तदङ्गम्” फलवताम् = अङ्गिनां दर्शपौर्णमासादीनां सन्निधौ तदङ्गम् जादियागाः तदङ्गभूताः ते च अफला भवन्ति तेषां पृथक् फलं न भवति, प्रधानयागस्य दर्शपौर्णमासादे: फलेनेव तत्फलवत्ता भवति इति भावः प्रकृते च अङ्गिभूताः रघुवंशादय:, तेषां यत्फलं चतुर्वर्गप्राप्तिरूपं तेनैव अङ्गभूतस्य = रघुवंशादेर्निरूपण रस्य अस्य अलङ्कारग्रन्थस्य साहित्यदर्पणस्य फलवत्त्वं = फलसहितत्वम्, न पृथक् फलम् । इति = अस्माद्धेतोः, काव्यफलानि = काव्यप्रयोजनानि आह - चतुर्वर्गेति । यतः अल्प धियाम् अपि सुखात् काव्यात् एव चतुर्वर्गफलप्राप्तिः, तेन तत्स्वरूपं निरूप्यते इत्यन्वयः । यतः यस्मात्कारणात्, अल्पधियाम् अपि = अल्पबुद्धीनाम् अपि न केवलं महाधियामिति भाव:, सुखात्=अनायासात्, काव्यात् एव = रघुवंशादेः कविकृतेरेव चतुर्वर्गफलप्राप्तिः= धर्मार्थकाममोक्षरूपफलप्रापणं, भवतीति शेषः तेन कारणेन, तत्स्वरूपं = तल्लक्षणं, निरूप्यते प्रतिपाद्यते ॥ २ ॥
=
aafoni विवृणोति चतुर्वर्गफलेति । चतुर्वर्गफलप्राप्तिः धर्मार्थ काम मोक्षरूपफलासादनं, रामादिवत् = रामादिना' तुल्यं, प्रवर्तितव्यं = चेष्टनीयं, गुरुजनाज्ञापालन सज्जनसंरक्षणदुष्टनिग्रहरूपा प्रवृत्तिः करणीयेति भावः । न रावणादिवत् प्रवर्तितव्यं रावणादिना तुल्यं, परदारहरणसज्जन संहरणादिरूपा प्रवृत्तिनं करणीयेति भावः । इत्यादिना । कृत्येषु = कर्तव्येषु प्रवृत्तिः = प्रवर्तनम् अकृत्येषु = अकरणीयेषु, निवृत्तिः = निवर्तनं, तदुपदेग द्वारेण = तदुपदे गव्यापारेण, सुप्रतीता एव = सुविदिता एव । एतत्कयनेन काव्यस्प शास्त्रत्वं प्रदर्शितम्
जिस कारणसे अल्प बुद्धिवालोंको भी काव्यसे ही अनायास चतुर्वर्ग ( धर्म, अर्थ, काम और मोक्ष ) रूप फलकी प्राप्ति होती है उस कारण से उसके स्वरूप( लक्षण ) का निरूपण किया जाता है || २ ||
काव्यसे चतुर्वर्गफलकी प्राप्ति राम आदिके समान आचरण करना चाहिए रावण आदिके समान आचरण नहीं करना चाहिए इस तरह कर्तव्य विषय में प्रवृत्ति और अकर्तव्य विषयमें निवृत्तिके उपदेशके द्वारा प्रख्यात ही है ।