________________
साहित्यदर्पणे
वाग्देवतायाः सांमुख्यमांधते
शरदिन्दुसुन्दररुचिश्वेतसि ‘सो मे गिरा देवी।
अपहृत्य तमः सन्ततमर्थानखिलान् प्रकाशयतु ॥१॥ अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह
प्रत्ययः । तस्मिन् अधिकृता, तस्या भावस्तत्ता, तया, अधिकारसम्पन्नत्वेन, "सामान्ये नपुंसकम्” इति नपुंसकत्वम् । वाग्देवतायाः = सरस्वत्याः, सांमुख्यं = संमुखत्वं, जाड्य. हरणेनाऽऽनुकूल्यमिति भावः । आपत्ते = विदधातीति भावः । मूलवृत्तिकृतोरैक्यात्कर्ष प्रथमपुरुषप्रयोग इति नाराङ्कनीयम् । प्रायेण ग्रन्थकारा अहङ्कारपरिहरणाऽर्थ मुत्तमपुरुषप्रयोगं विहाय प्रथमपुरुषप्रयोगेण स्वस्य विनयत्ति प्रदर्शयन्ति । सन्ति चैतादृशाः प्रयोगाः
"मनुमेकाऽग्रमासीनमभिगम्य महर्षयः । प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥” ( मनु० १-१)। "योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् ।
वर्णाश्रमेतराणां नो ब्रहि धर्मानशेषतः ॥" याज्ञवल्क्यस्मृतिः १-१ इत्यादयः शरदिन्दिति । शरदिन्दुसुन्दररुचिः सा गिरी देवी मे चेतसि सन्ततं तमः अपहृत्य अखिलान् अर्थान् प्रकाशयतु इत्यन्वयः।
__शरदिन्दुसुन्दररुचिः शरदि (शरदृती ) इन्दुः ( चन्द्रः) । सुन्दरी (मनोहरा) कचिः (प्रमा) यस्याः सा । शरदिन्दुरिव सुन्दररुचिः, "उपमानानि सामान्यवचनः" इति समासः । सा = श्रुतिस्मृतिपुराणप्रसिद्धा, गिरा = वाचा, देवी अधिष्ठात्री, सरस्वतीति भावः । मे = मम ग्रन्थकारस्य, विश्वनाथकविराजस्येति भावः । चेतसि = चित्ते, सन्ततं = विस्तृतं, तमः तमस्तुल्यंमज्ञानम्, अपहृत्य = विनाश्य, अखिलान् = समस्तान अर्थान् = प्रमेयान्, प्रकाशयतु-प्रकटीकरोतु, शरदिन्दुर्यथाऽन्धकारं दूरीकृत्य घटपटादी. नर्यान्प्रकाशयति तथैव सरस्वत्यपि मद्धृदये विद्यमानमन्धकारं विनाश्य समस्तानलवारशास्त्रप्रमेयान्प्रकटीकरोत्विति भावः । सन्ततपदं क्रियाविशेषणत्वेन का योजनीयम् । सन्ततं = निरन्तरं, प्रकाशयतु । उपमाऽलङ्कारः । आर्यावृतम् ॥ १ ॥
ननु "प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ।" इति न्यायादस्य ग्रन्थस्य प्रयोजनं यावन्न प्रतिपाद्यते तावत्कथमत्र व्युत्पित्सूनां प्रवृत्तिरित्यत आह -अस्य ग्रन्यस्येति । अस्य=
शरत् ऋतुके चन्द्रकी समान सुन्दर कान्तिवाली श्रुति, स्मृति और पुराण आदिमें प्रसिद्ध वाणीकी अधिष्ठात्री (सरस्वती) देवी मेरे वित्तमें विस्तृत अज्ञानरूप अन्धकारका. अपहरण करके समस्त प्रमेयरूप अर्यों का प्रकाश करें ॥१॥
यह ग्रन्थ काव्योंका अङ्ग है अतः काव्योंके फलोंसे ही इसकी फलवता है, इसलिए काव्यफलोंको कहते हैं ।