________________
५९६
साहित्यदर्पणे
भवेदुत्कलिकाप्रायं, चूर्णकं च चतुर्विधम् । आद्य समासरहितं वृत्तभागयुतं परम् || ३३१ ॥ अन्यद्दीर्घसमासाढ्यं तुर्य चापसमासकम् ।
"
मुक्तकं यथा - 'गुरुर्वचसि पृथुरुरसि -' इत्यादि ।
वृत्तगन्धि यथा मम -
'समर कण्डूल निविडभुजदण्ड कुण्डलीकृतकोदण्डशिञ्जिनीटंकारोज्जा गरिवेरिनगर' इत्यादि । अत्र 'कुण्डलीकृतकोदण्ड' - इत्यनुष्टुब्वृत्तस्य पादः,
"बन्ध" स्थाने "गन्धेति पाठान्तरं तत्र वृत्तस्य ( छन्दस्स: ) यो गन्ध: ( लेशः ) पादादि:, तदुज्झितम् (तद्रहितमित्यर्थः) । "गद्यम्" "गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वभीः ।" इति विश्वः । गद्यस्य भेदचतुष्टयमुद्दिशति - मुक्तकमिति । मुक्तक वृत्त - गन्धि ||३३० ॥ उत्कलिकाप्रायं चूर्णकं चेति गद्य चतुविधं = चतुष्प्रकारं भवतीत्यर्थं ।
मुक्तकं लक्षयति- प्राद्यमिति । आद्य = प्रथमं भेदचतुष्टयम् आदिवमित्यर्थः, मुक्तकमिति भावः । समासरहितम् = अनेकपदबन्धवर्जितं व्यस्तपदोपेतमिति भावः ।
वृत्तगन्धि लक्षयति- परम् अन्यत्, वृत्तगन्धि, वृत्तमागयुतं = पद्यांशसहितं, भवतीति भावः ।। ३३१ ।।
उत्कलिकाप्रायं लक्षयति- प्रन्यदिति । दीर्घसमासादयं = दीर्घः ( आयतः ), बहुपदसहितः यः समासः ( वृत्तिविशेष: ) तेन आढ्यम् ( सम्पन्नम् ), अन्यत् = अपरम्, उत्कलिकाप्रायम् ।
चूर्णकं लक्षयति - तुर्यमिति । अल्पसमासकं = स्तोकसमासक, द्वित्र समस्तपदोपेतमितिभावः तादृशे गद्य, तुयं = चतुर्थं, चूर्णकमिति भावः ।
तत्रादौ मुक्तक मुदाहरति-- गुरुरिति । "गुरुवंचसि पृथुरुरमि" इत्यादि । समासराहित्यात् = समस्तपदाभावात् मुक्तकमिदम् ।
वृत्तगन्धि उदाहरति- "समर कण्डूले त्यादिः ० " कंत्रिद्वनुद्दिश्य सम्बोधनोक्तिरियम । समरे ( युद्धकरणे ) कण्डूलो ( कण्डूयुक्तौ ) "कण्डूयने" ति पाठे कण्डूयनेन ( कण्डूकरणेन ) इत्यर्थः, निबिडो ( घनो ) यो भुजदण्डी ( बाहुदण्डो ) ताभ्यां कुण्डलीकृतं ( कुण्डलाकृतं प्रसारितमितिभावः ) तादृशं यत् कोदण्ड ( धनु: )
उत्कलिकाप्राय और चूर्णक इस प्रकार चार भेदोंसे युक्त है । मुक्तक-समाससे रहित गद्य को "मुक्तक" कहते हैं ।
वृत्तगन्धि - पथके अंश से युक्त गद्यको "वृत्तगन्धि" कहते हैं ।। ३३१ ।। उत्कलिकाप्राय - दीर्घ समाससे युक्त गद्यको 'उत्कलिकाप्राय" कहते हैं । चर्णक - घोड़े ( दो या तीन पदोंके ) समासवाले गद्यको "चूर्णक" कहते हैं । मुक्तकका उदाहरण - "गुरुर्वचसि पृथुरुरसि " इत्यादि ।
गन्धका उदाहरण - "समरकण्डूल" इत्यादि । युद्ध करनेके लिए खुजली