________________
षष्ठः परिच्छेदः
५९१
-
-
इतिहासोद्भवं वृत्तमन्यदा सज्जनाश्रयम् । चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् ॥ ३१८ ॥ आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा । क्वचिनिन्दा खलादीनां सतां च गुणकीर्तनम् ।। ३१९ ।। एकवृत्तमयैः पद्यरवसानेऽन्यवृत्तकैः । नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ॥ ३२० ॥
नानावृत्तमयः क्यापि सर्गः कश्चन दृश्यते । महाकाव्ये वृत्तं = चरित्रम्, इतिहासोद्भवं = गमायणमहामारतादिमूलक, वा अन्यत् - अपरम्, इतिहासोद्भवभिन्नं, सज्जनाश्रयं - शिष्ट जनाधारं, भवतीति शेषः । तस्य = महाकाव्यस्य, चत्वारः वर्गाः = धर्माऽर्थकाममोक्षरूपाः, स्युः, तेषु - चतुर्वर्गेषु, एकं = धर्मादिषु अन्यतमं, फलं = प्रधानप्रयोजनं भवेत् ॥ ३१८ ॥
महाकाव्ये आदी = प्रारम्भे, नमस्क्रिया = प्रणतिः, यथा रघुवंशे "वागवि. वे"त्यादिः, । क्वचिद आशी:: = शुभाशंसा, वस्तुनिर्देशः = देववाचकशब्दरूपपदार्थ प्रदर्शनं भद्रवाचकशब्दरूपपदार्थप्रदर्शनं वा, यथा किरातार्जुनीय कुमारसमवादिषु । क्वचित् = कुत्रचिन्महाव्ये, खलादीनां = दुर्जनादीना, निन्दा = विगानं, सतां च = सज्जनानां च, गुणकीर्तनं = दयाराक्षिण्यादिगुणवर्णनं, क्वचिदितिपदेन सर्वत्र खलादि. निन्दा-सद्गुणकीर्तने नावश्यके इति प्रतीयते ।। ३१९ ॥
तथा च महाकाव्ये सर्गेषु एकवृत्तमयः एकच्छन्दोमयः, पद्य:वृत्तः, अवसानेसर्गसमासो, अन्यवृत्तकैः = छन्दोऽन्तरः, भाव्यमिति शेषः । इह = महाकाव्ये, नाऽतिस्वल्पाः = नाऽतिन्यूनाः, नाऽतिदीर्घाः = नाऽतिप्रचुराः, अष्टाऽधिका:-अष्टाऽतिरिक्ताः । सर्गाः, भवेयुरुिति शेषः ॥ ३२० ॥ ___ क्वाऽपि - कुत्राऽपि, महाकाव्ये, नानावृत्तमयः = अनेकच्छन्दःप्रचुरः, कश्चन -
इसमें इतिहास स्थित चरित्र वा किसी सज्जनमें स्थित चरित्र रहता है। महाकाव्यमें धर्म, अर्थ, काम और मोक्ष चार वर्ग होते हैं, उनमें एक फल (प्रधान प्रयोजन) होता है ॥ ३१८॥
- महाकाव्यमें आरम्ममें नमस्कार, आशीर्वाद वा वस्तुनिर्देश रहता है। कहींपर दुर्जन आदियों की निन्दा और सज्जनोंका गुणकीर्तन राता है ॥ ३१९ ॥
महाकाव्यों सर्गोमें एक ही छन्दमें निबद्ध पद्य रहते हैं पर सर्गसमाप्तिमें भिन्न छन्दका पध होता है । इसमें सर्ग भी न बहुत छोटे और न बहुत लम्बे होते हैं । आठसे अधिक सर्ग होते हैं ।। ३२० ॥
किसी महाकाव्य में किसी एक सर्गमें अनेक छन्दोंसे निबट पन देखे जाते हैं।