________________ साहित्यदर्पण एवमन्यान्यपि। सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः // 315 // सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः / एकवंशभवा भूपाः कुलजा बहवोऽपि वा // 316 // शृङ गारवीरशान्तानामेकोऽङगी रस इष्यते / अङ गानि सर्वेऽपि रसाः, सर्वे नाटकसन्धयः / / 317 / / मधुरः = माधुर्यपूर्णः; मधुपध्वनिः = भ्रमरशङ्कारः, आविरभूत् = प्रादुर्भूतः / एवमिति। अन्यान्यपि = सन्दानितक-कलापक कुलान्यपि, उदाहरणानि शिशुपालवधादिषु द्रष्टव्यानि। _____ महाकाव्यं लक्षयति-सर्गबन्ध इति / सर्गबन्धः = परिच्छेदरूपाणां सर्गाणां बन्धः ( निबन्धनम् ) महाकाव्यम् / तत्र = तस्मिन् महाकाव्ये, धीरोदात्तगुणाऽन्वितः - धीरोदात्तस्य नायकस्य गुणः ( अविकत्थनत्वादिभिः) अन्वितः ( युक्तः) सुरःदेवः // 315 // एकः = एकमात्र, नायकः = नेता, यथा हरचरितमहाकाव्ये सद्वंश = उत्तमकुलप्रसूतः; क्षत्रियः = बाहुजः, नायकः / यथा नैषधीयचरिते नलः / नायकविषये मतान्तरं प्रदर्शयति–वा = अथवा एकवंशभवाः = एककुलोत्पन्नाः कुलजाः-कुलीनाः, बहवोऽपि = धीरोदात्तगुणाऽन्विता नायकाः स्युर्यथा रघुवंशे दिलीपादयः / / 316 / / शृङ्गारवीरशान्तानां = स्सानां मध्ये, एकः = अन्यतमः, रसः, अङ्गीप्रधानम्, इम्यते-अभिलष्यते / यथा नैषधीयचरिते-शङ्गारः, शिशुपालनधे वीरः, प्रबोधचन्द्रोदये , शान्तः अङ्गीरसः / इतरे सर्वेऽपि रसाः = हास्यादयः, अङगानि = अप्रधानानि / सर्वसकलाः, नाटकसन्धयः- मुखप्रतिमुखादयो भवन्तीति शेषः // 317 / / दो श्लोकोंका परस्पर सम्बन्ध रहनेसे यह युग्मका उदाहरण है। इसी तरह सन्दानितक आदिका भी उदाहरण जानना चाहिए। महाकाव्य-परिच्छेदरूप सोका निबन्धन जिसमें रहता है उसे "महाकाव्य" कहते हैं / उसमें धीरोदात्तके गुणों से युक्त देवता // 31 // नायक होते हैं, अथवा उत्तम कुलमें उत्पन्न क्षत्रिय नायक होता है / अपवा एक वंशमें उत्पन्न कुलीन बहुतसे राजा नायक होते हैं // 316 // महाकाव्यमें शृङ्गार; वीर और शान्त इनमें एक रस प्रधान होता है, . अन्य सभी रस बग (प्रधान) होते हैं। नाटकली सभी मुख बादि सन्धियां रहती हैं / / 317 //