SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे अगंभी नागरनरा न्यूननायकभूषिता / / 303 / / त्रिनालिः प्रथमोऽङ्कास्यां विटक्रीडामयो भवेत् / पश्चनालिद्वितीयोऽको विषकविलासवान् / / 304 // पण्णालिकस्तृतीयस्तु . पीठमर्दविलासवान् / चतुर्थो दशनालिः स्यादकः क्रीडितनागरः // 305 // यथा-बिन्दुमती। कैशिकीभारतीयुता - सात्वत्यारपटीरहितेति भावः / अगर्मा = गर्भसन्धिरहिता, मुखप्रतिमुखविमर्शनिर्वहणसन्धिसहितेति भावः। नागरनराः=नागराः ( नगरमवा विदग्धा इति भावः ) नराः (जनाः) यस्यां सः / "नागरं मुस्तके शुराठयां विदग्धे नगरोद्भवे।" इति मेदिनी / न्यूननायकभूषिता - न्यूनः ( जात्याऽपकृष्टः) यो नायकस्तेन भूषिता। केचित् "नागरनरा" इत्यत्र अकारं प्रपिलष्यं "अन्यूननायकभूषिता" एतादृशं पाठं कुर्वन्ति तत्र अन्यूनः (अनिकृष्टः, उत्तम इति भावः ) यो नायकस्तेन भूषिता इत्पं व्युत्पत्ति प्रदर्शयन्ति / उत्तरत्र भूषिते"ति पदस्थितिदर्शनाद ब्याख्यानमिदं चारुतरं 'प्रतीयते // 303 / / अस्यां - दुमल्लिकायां, प्रथमोऽङ्कः विनालि:- तिस्रः नायकः यस्मिन् सः, "नालिका घटिकाद्वयमा, इति प्रागेवोक्तमतो घटिकाषट्कनिष्पाय इत्यर्थः / स च विटक्रीडामयः = विटकेलिप्रचुरः, भवेत् / द्वितीयोऽङ्कः, पञ्चनालि: = पञ्च नालयो यस्मिन, सः, घटिकादशकनिष्पाच इति भावः / स च विदूषकविलासवान् = विदूषकस्य, विलासवान (व्यवहारसम्पन्नः ) इत्यर्थः // 304 // तृतीयस्तु अङ्कः, षण्णालिक:- षट् नालयो यस्मिन्सः द्वादशटिकानिष्पाद्य इति भावः / स च पीठमविलासवान् भवेत् / चतुर्थोऽङ्कः, दशनालिः = दश नालयो यस्मिन् सः, विशतिघटिकानिष्पाच इति भावः / वक्रीडितनागरः = क्रीडिताः (क्रीडायुक्ताः ) नागराः ( नगरजनाः ) यस्मिन् सः तादृशो भवेत् / क्वचिन्नागरस्थाने "नायक" पदं दृश्यते // 304 // यथा-बिन्दुमती। गर्भसन्धिसे रहित, नगरके विदग्ध, ( रसिक) जनोंसे युक्त, निकृष्ट नायकसे युक्त उपरूपक "दुर्मल्लिका" हैं // 303 // - इसमें तीन मुहूर्तावाला प्रथम अङ्क प्रचुर विटक्रीडासे युक्त होता है / पाँच मुहूतों वाले द्वितीय अमें विदूषकका प्रचुर विलास रहता है / / 304 // छः मुहूर्तों वाले तृतीय अङ्कमें पीठमर्दका प्रचुर विलास रहता है / दश मुहूर्तो - वाले चतुर्थ अङ्कमें नगरके रसिक जनोंके कीडनका वर्णन रहता है / / 305 // , .. जैसे-बिन्दुमती। ,
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy