________________ 576 साहित्यदर्पणे तत्र सन्धि यवती यथा-नर्मवती / सन्धिचतुष्यवती यथा-विलासवती। अथ प्रस्थानकम् प्रस्थाने नायको दासो हीनः स्यादुपनायकः / दासी च नायिका, वृत्तिः कैशिकी भारती तथा // 280 / / सुरापानसमायोगादुद्दिष्टाथस्य संहतिः / अङ्कौ द्वौ लयतालादिविलासो बहुलस्तथा / / 281 // यथा-शृङ्गारतिलकम् / अथोल्लाप्यम् उदात्तनायकं दिव्यवृत्तमेकावभूषितम् / शिल्लका तं हास्यशृङ्गार करणे रसैः / / 282 / उदाहरीत-तत्रौत। प्रस्थानकं लक्षयति-प्रस्थान इति / प्रस्थाने, दासः = किङ्करः, नायकः, हीनः दासादपि निकृष्टः, उपनायकः, नायिका दासी, वृति:-कंशिकी भारती च / 280 / - सुरापानसमायोगात् = मदिरापानसम्बन्धात, उद्दिष्टाऽर्थस्य आरन्धविषयस्य, संहतिः = उपसंहारः, कर्तव्य इति भावः / द्वो अङ्को, लयतालादिः="लयः" साम्यम्, "तालः" काल क्रियामानम्, तदादिः, कर्तव्य इति शेषः / तथा बहुल:=प्रचुरः, विलासः= शृङ्गारचेष्टाविशेषः / भवेत् / / 28 / / उल्लाप्यं लक्षयति-उदात्तनायकमिति / उदात्तनायकम् = उदात्तः (धीरोदात्तः ) नायकः (नेता) यस्मिस्तत् / दिव्यवृत्तं = दिव्य ( देवविषयकम् ) वृत्तं (चरित्रम् ) यस्मिस्तत् / एकाऽङ्कभूषितम् = एकाऽङ्कन भूषितम् (अलङ्कृतम)। शिल्पकाऽङ्गः = शिल्पकस्य ( वक्ष्यमाणस्य उपरूपकविशेषस्य ) अङ्गः (आशंसाऽऽ. दिभिः ), युतं = सहितं, तथा हास्यशृङ्गारकरुण रसः, युतम् // 282 / / दो सन्धियोंसे युक्त जैसे-नर्मवती। चार सन्धियोंसे युक्त जैसे -विलासवती। - प्रस्थानक-प्रस्थानकमें नायक दास होता है और उपनायक हीन होता है। नायिका भी दासी होती है, कैशिकी और भारती दो पत्तियां रहती हैं / / 280 / / सुरापानके संयोगसे उद्दिष्ट अर्थका उपसहार होता है / इसमें दो अङ्क रहते हैं, लय और ताल आदि होते हैं और प्रचुर विलास रहता है // 281 // जैसे शृङ्गारतिलक / उल्लाप्य-उल्लाप्यमें नायक धीरोदात्त होता है, इसमें दिव्य चरित्र रहता है और वह एक अङ्कसे भूषित रहता है। शिल्पकके आशंसा आदि अङ्गोंसे और.हास्य, शृङ्गार और करुण रससे युक्त होता है / / 282 //