________________ षष्ठः परिच्छेदः 575 अङ्का जवानेकाख्याः स्युः स्यादन्यनाटिकासमम् / यथा कपूरमञ्जरी। अथ नाट्यरासकम्नाट्यरासकमेकाडू बहुताललयविति // 277 // उदात्तनायकं तद्वत्पीठमोपनायकम् / हास्योऽङ्गयत्र सशृङ्गारो नारी वासकसलिका // 278 // मुखनिवहणे सन्धी लास्याङ्गानि दशापि च / केवित्प्रतिमुखं सन्धिमिह नेच्छन्ति केवलम् // 279 // अत्रायाः, जवनिकाऽऽख्याः = जवनिकानामकाः, स्युः, अन्यत् = उक्ताधिकं, क्लुप्तवत्तत्वादिकमिति भावः / नाटिकासमं-नाटिकासदृशं स्यात् / यथा-कपूरमञ्जरी। नाट्यरासक्तं लक्षयति-नाटथरासकमिति / एकाऽङ्कम् = एकः अङ्कः यस्मिस्तत् / बहुताललयस्थिति = बहूनां (प्रचुराणाम ) ताललयानां ( "तालः काल. क्रियामानम्" इति लक्षणलक्षितानां तालानां, "लयः साम्यम्" इत्ये तल्लक्षणलक्षितानां लयानां च ) स्थितिः ( अवस्थानम् ) यस्मिस्तत् // 277 / / एवं च उदात्तनायकम् = उदात्तः ( धीरोदात्तः ) नायकः (नेता) यस्मिस्तत् / तद्वत् पीठमर्दोपनायकं - पीठमर्दः ( "दूराऽनुवतिनी० ( 120 पृ." ) त्यादिलक्षणलक्षितो नायकसहायः ) उपनायको यस्मिस्तत् / तादृशमुपरूपकं नाट्य रासकं स्यात् / अत्र = नाट्य रासके, सशृङ्गारः = शृङ्गारसहितः हास्यो रसः, अङ्गी - प्रधानम्, वासकसज्जिका="कुरुते मण्डनं यस्याः ( 157 पृ.)" इत्युक्तलक्षणलक्षिता, नारी = स्त्री, नायिका भवति // 278 / / . मुखनिर्वहणे सन्धी, दशाऽपि च लास्याङ्गानि-उद्घात्यकादीनि स्युः / केचित कतिपय आचार्याः, इह - अस्मिन् नाट्यरासके, प्रतिमुखं सन्धि, केवलम् = एव, न इच्छन्ति = नो वाञ्छन्ति, अन्यान् मुख-गर्भ विगशोपसंवृत्याख्यांश्चतुरः सन्धींस्तु इच्छन्तीति भाव: / / 279 // जवनिका नामवाले अङ्ग होते हैं और सब इसमें नाटिकाके समान रहते हैं / जैसे कपूरमञ्जरी। नाटपरासक-एक अङ्कवाला और जिसमें अनेक बाल और लयकी स्थिति रहती है। धीरोदात्त नायक होता है वैसे ही पीठमदं उपनायक होता है। इसमें शुङ्गारके साथ हास्य रस प्रधान होता है, वासकसञ्जिका नायिका होती है / / 278 / / इसमें मुख और निर्वहण सन्धियां होती है, लास्यके दशों अङ्ग रहते हैं / कुछ विद्वान् यहापर केवळ प्रति मुख सन्धिकी इच्छा नहीं करते हैं / / 279 //