________________
५७०
साहित्यदर्पणे
अत्र नारभटी, नापि विष्कम्भका वेशको 1
अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिनं वा ॥ २६५ ॥
तत्र
तपस्विभगवद्विप्रप्रभृतिष्वत्र
नायकः ।
एको यत्र भवेद्धृष्टो हास्यं तच्छुद्रमुच्यते ॥
यथा कन्दर्प केलिः ।
आश्रित्य कश्चन जनं संकीर्णमिति तद्विदुः ॥ २६६ ॥ यथा - धूर्तचरितम् ।
"1
अत्र = प्रहसने, आरभटी = "मायेन्द्रजाले त्यादिलक्षणलक्षिता (४८८ पृ० ) " वृत्तिः, न, न स्थात्, विष्कम्भकप्रवेश की अपि = "वृत्तवतिष्यमाणानाम् ०" 'प्रवेशको - .नुदासोक्त्या०' ( ४१८,४१९ पृ० ) इत्याद्विलक्षणलक्षितावर्थोपक्षेपको अपि, नं, नो भवतः । तत्र = तस्मिन् हास्यरसे । ड्रास्यरसः, अङ्गी = प्रधानम् ! बीथ्यङ्गानां - रूपकविशेष निम्, उदद्यात्यकादीनामिति भावः । स्थिति:- अवस्थानं, न स्यात्। २६५ ॥
तपस्वीति । अत्र = अस्मिन् प्रहसने, तपस्वीत्यादि: ० = तपस्विनः ( तापसाः, कृच्छ्रादिव्रताचरणपरायणा इति भावः ) भगवन्तः ( ब्रह्मज्ञाः, संन्यासिनः ) विप्राः ( ब्राह्मणा: ) तत्प्रभृतिषु ( तादिषु ), एक: अन्यतमः, नायकः = नेता, भवेत् । अस्य च भेदत्रयं भवति, शुद्धं, सङ्कीर्णं विकृतं च । यत्र घृष्टः = " कृतागा अपि० (११७ पृ० ) इत्युक्तलक्षणलक्षितो नायकों मवेत्, तत् = हास्य प्रहसनं, शुद्धम् उच्यते । शुद्धं प्रहसनमुदाहरति- यथेति । यथा कन्दर्पकेलिः |
संकीर्णप्रहसनं लखपति - प्राश्रित्येति । कंचन = धृष्टभिन्न नायकम् आश्रित्य यत् प्रहसनं भवति, तत् संकीर्ण = सङ्कीर्णप्रहसनम्, इति, विदुः = जानन्ति, विद्वांस इति शेषः ।। २६६ ।।
सङ्कीर्णं प्रहसनमुदाहरति- यथेति । यथा धूर्तचरितम् ।
इसमें आरभटी वृत्ति तथा विष्कम्भक और प्रवेशक नही रहते हैं। इसमें हास्य रस प्रधान होता है और वीथीके अङ्गों की स्थिति नहीं रहती है ।। २६५ ।।
तपस्वी, ब्रह्मवादी (संन्यासी आदि), ब्राह्मण इनमें कोई एक नायक होता है । इसके शुद्ध, सङ्कीर्ण और विकृत तीन शुद्ध प्रहसन - भेद होते हैं । जहाँपर घृष्ट नायक होता है उसे 'शुद्ध हास्य" कहते हैं । जैसे कन्दर्प केलि ।
सङ्कीर्ण प्रहसन - घृष्टसे किन किसी पुरुषको आश्रय कर जो प्रहसन होता
है उसे "सङ्कीर्ण" बहते हैं। जैसे धूर्तपरित्र ॥ २६६ ॥