SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ५६९ एतानि चाङ्गानि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यं विधेयानि, स्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि । वीथीव नानारसानां चात्र मालारूपतया स्थितत्वाद्वीथीयम् । यथा-मालविका। अथ प्रहसनम्भाणवत्सन्धिसन्ध्यङ्गलास्याङ्गाङ्क विनिर्मितम् । भवेत्प्रहमनं तं निन्द्यानां कविकल्पितम् ॥ २६४ ॥ जात- सम्पन्नम्, अधुना-अस्मिन्समये, वियोगकाल इति भावः । दुःखाय एव=कष्टाऽनु. भवाय एब, जातं-सम्पन्नम् । अत्र गुणानामपि दोषत्वप्रतीतेद्वितीयं मृदवोदाहणं ज्ञेयम् । धीथ्यङ्गेषु विवेकमाह-एतानीति । एतानि = पूर्वोक्तानि उदात्यकादीनि वीथ्यङ्गानि, नाटकादिपु. = वीथीमिन्नरूप कान्तरेषु, संप्रवन्त्यपि = संभवं प्राप्नुवन्यपि, वीभ्याम् = रूपकस्य नवमभेदे, अवश्यं = नून, विधेयानि = कर्तव्यानि, इति = एवं, विनिविष्टानि अपि = विनिवेशयितु निर्दिष्टानि अपि, इह-अस्या, वीध्यामिति भावः । उदाहृतानि = निशितानि । वीथीपदं निर्वक्ति-वीथोवेति। वीथी इव-नानाविधोपकरणानामाधारभूता यथा वीथी (पण्यवीथिका ) तर्थव नगनारसानां = शृङ्गारादीनां; मालारूपतया = सक्स्वरूपत्वेन स्थितत्वाद, इयं = रूपकविशेषो वीथी। प्रहसनं लक्षयति-भाणवविति। भाणवत् = भाणाख्ये रूपकविशेषे इव, सन्धिसन्ध्यङ्गलास्याऽङ्गाऽy: = सस्त्रिभ्यां ( मुखनिर्वहणसन्धिभ्याम् ) सन्ध्यङ्गः - ( अनेकसन्ध्यङ्गः ) लास्योऽङ्गः (यथासम्भव गेयपदादिभिः ) अङ्केन (एकेन बन), विनिर्मितं = रचितम् । कविकल्पितं = कविना (पककारेण ) कल्पितं (कल्पना. विषयीकृतम् ) निन्द्यानां = निन्दाऱ्याणां जनानाम्, वृत्तं = चरित्रं, भवेत् ।। २६४ ।। यहाँपर गुण दोष हो गये हैं, अतः यह "मृदव" हुआ। वीथीके ये अङ्ग नाटक आदि अन्य रूपकोंमें भी हो -रते हैं, परन्तु वीपीमें इनको अवश्य रखना चाहिए, अतः स्पष्ट रूपसे नाटक आदिमें इनके रहनेपर भी यहाँ इनके उदाहरण दिये गये हैं । वीथी ( वृक्ष आदिको श्रेणी ) के समान इस ( वीथी नामक रूपक) में अनेक रसोकी मालाके समान अवस्थितिसे इसको "वीथी" कहते हैं । जैसे-मालविका। प्रहसन-भाणके समाव सन्धि और सन्धिके अङ्ग और लास्याङ्गों तथा एक अङ्गसे रचित कविकल्पित निन्दनीय जनोंका चरित्र जहाँ दिखाया जाता है उसे, "प्रहसन" कहते हैं ॥ २६४ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy