________________
५६४
साहित्यदपणे
व्याख्यानं स्वरसोक्तस्मान्यथावस्यन्दितं भवेत् । यथा छलितरामे
'सीता-जाद ! काल्लं क्खु उ आज्झाएण गन्तव्वम् , तर्हि सो राजा विणएण पणयिदव्वो।
लवः-अथ किमावाभ्यां राजोपजीविभ्यां भवितव्यम् । सीता-जाद ! सो क्खु तुम्हाणं पिदा। लवः-किमावयो रघुपतिः पिता ?
सीता-(साशङ्कम् ) मा अण्णधा सङ्कद्धम् ,णक्खु तुम्हाणं, सअलाए ज्जेव पुहवीएत्ति'।
अवस्यन्दितं लक्षति-व्याख्यानमिति । स्वरसोक्तस्य = स्वरसेन (निजाभिप्रायेण ) उक्तस्य (कथितस्य) वाक्यस्येति शेषः । अन्यथा प्रकारान्तरेण, व्याख्यानप्रतिपादनम् "अवस्यन्दितं" भवेत् ।। १६१ ॥
अवस्यन्दितमुदाहरति-यथेति । सीता-"जात ! कल्यं खलु उपाध्यायेन गन्तव्यं तहि स राजा विनयेन पणायितव्यः ।" सीता-"जात | स खलु युष्माकं पिता"। सीता"मा बन्यथा शङ्कध्वम्। न खलु युष्माकं, सकलाया एव पृथिव्या इति" इति संस्कृतच्छाया। जात-पुत्र !, कल्यं प्रभातं, यथा तथा । "प्रत्यूषोऽहर्मुखं कल्यमुष:प्रत्युषती अपि" इत्य. मरः । उपाध्यायेन=गुरुणा सह, युवाभ्यामिति शेषः । “अओज्झाए" इति पाठान्तरे "अयो. ध्यायाम्” इति संस्कृतच्छाया । सः प्रसिद्धः, राजा-भूपाल:, राम इत्यर्थः। विनयेनःनम्रतया, पणायितव्यः स्तोतन्यः, अत्र बहुभिव्याख्यातृभिः, "पणायितव्य" इत्यस्य व्यव. हर्तव्य इति व्याख्यातं, परं तदपव्याख्यान, यतः "पण व्यवहारे स्तुती चे "ति पणधातो. व्यवहारस्तुत्यर्थकत्वेऽपि स्तुत्यर्थकादेव पणधातो: "गुपूधूपविच्छिपणिनिभ्य आय" इति सूत्रण आयप्रत्ययो भवति । अत एव"पनिसाहचर्यात्पणेरपि स्तुतावेवाऽऽयप्रत्यय" इति दीक्षितचरणाः । रजोपजीविभ्यां राजोपजीवनशीलाभ्याम् । शङ्खध्वंशकां कुरुध्वम् ।
अवस्यन्दित-अपने अभिप्रायसे कहे गये वचनका अन्यथा ( दूसरे ही अर्थ में ) व्याख्यान करनेको "अवस्यन्दित" कहते हैं। - जसे छलितराम ( रूपक)में-सीता ( लवको कहती हैं )- पुत्र ! प्रत:कालमें तुम्हें उपाध्यायके साथ जाना चाहिए। उस समय राजा ( राम ) की विनयसे स्तुति करनी चाहिए। लव-"अब क्या हम दोनों ( भाइयों ) को राजाका सेवक होना पड़ेगा?" | सीता-"पुत्र ! वे ( राजा राम ) तुम्हारे पिता हैं"। लव-क्या हम दोनोंके रघुपति ( रामचन्द्रजी ) पिता हैं ?"।
सीता-(बासनाके साथ ) दूसरी शङ्का मत करो। ( वे राम ) तुम्हारी ही