________________
षष्ठः परिच्छेदः
गण्डं प्रस्तुत संबन्धि भिन्नार्थं सत्वरं वचः || २६० ॥
यथा वेण्याम् -
'राजा
अध्यासितु तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ! ममोरु
युग्मम् ॥
.
अनन्तरम् (प्रविश्य)
कचुकी । देव ! भग्नं भग्नम् - इत्यादि ।'
अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धम् |
५६३
क्षतजै: ( रुधिरैः ) उक्षिता (सिक्ता सती, पिशिताशनलाभनीया = विशिताऽशनानां (मांसभक्षकाणां शृगालादीनामिति भाव: ) लोभनीया ( लोभोत्पादिका ), आस्तां भवतु । वसन्ततिलका वृत्तम् । अत्र स्वधंया मिथ आधिक्यस्योक्तेरधिबलम् ।
गण्डं लक्षयति--- गण्डमिति । प्रस्तुतसम्बन्धि प्रकृताऽर्थसम्बद्ध, भिन्नाऽर्थं म्= अन्याऽर्थबोधकं, सत्वरं = त्वरासहित, वचः = वचनं, "गण्डम्" भवति ॥ २६० ॥
गण्ड मुदाहरति- प्रध्यासितुमिति । राज्ञो दुर्योधनस्य स्वप्रियां भानुमती अत्युक्तिरियम् । अस्य पद्यस्य पूर्वाद्धं -
"लोलांशुकस्य पवनाssकुलितांऽशुकान्तं त्वदृष्टिहारि मम लोचन बान्धवस्य । "
हे करभो ! मम ऊरुयुग्मं - सक्थियुगलं, तव जघनस्थलस्य = पूर्व भागस्य, चिरान् = बहुकालं यावत्: अध्यासितुम् = आश्रयितुं रमणाऽर्थमिति शेषः । पर्याप्तम् एव = समर्थम् एव ( बेणी० २ - २३ ) । वसन्ततिलका वृत्तम् ।
लक्ष्ये लक्षण संगमयितुमुत्तरवाक्यमाह - अनन्तरमिति । "देव ! भग्नं भग्नम् " इति वाक्यम् ।
विवृणोति--अत्रेति । अत्र अस्मिन् वाक्ये । रथकेतनभङ्गार्थे - रथकेतनस्य भङ्गार्थम् ( आमनार्थम् ) वचनं वाक्यम् उक्तं सदिति शेषः ) ऊरुभङ्गाऽर्थे दुर्यो सङ्गिरूपेऽर्थे सम्बद्धं = सम्बन्धयुक्तम् ।
यह धरती कुछ हो क्षणमें सपूर्ण दैत्योंके रुधिरसे सिक्त होकर मांसभक्षी स्यार आदि पशुओंको लोभविषय हो जाये ॥
गण्ड - प्रस्तुत से सम्बद्ध भिन्नार्थबोधक त्वरायुक्त वचनको "गण्ड" कहते हैं २६० जैसे वेणी (संहार) में राजा ( दुर्योधन ) --
'हे सुन्दरि ( भानुमति ! ) यह मेरा ऊरुयुग्म तुम्हारे जघन स्थलके बैठने के लिए पर्याप्त ( समर्थ ) है ।" इसके अनन्तर ( प्रवेश कर ) कञ्चुकी – महाराज ! टूट गया टूट गया इत्यादि । यहाँपर रथका ध्वज भङ्ग हो गया इस वात्पर्यका वचन करु. भङ्ग रूप अर्थके सम्बन्ध में सम्बद्ध है ।