SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे तत्र शास्त्राविरोधेन कृतो धर्मशृङ्गारः। अर्थलाभार्थकल्पितोऽर्थशृङ्गारः। प्रहसनशृङ्गारः कामशृङ्गारः, । तत्र कामशृङ्गारः प्रथमाङ्क एव । अन्ययोस्तु न नियम इत्याहुः। चेतनाचेतना गजादयः। समवकीर्यन्ते बहवोऽर्था अस्मिन्निति समवकारः। यथा-समुद्रमथनम् । अथ डिमः मायेन्द्रजालसंग्रामकोधोद्घान्तादिचेष्टितैः । उपरागैश्च भूयिष्ठो डिमः ख्यातेतिवृत्तकः ॥ २४१॥ अङ्गी रौद्ररसस्तत्र सर्वेऽङ्गानि रसाः पुनः । चत्वारोऽका मता नेह विष्कम्भकप्रवेशको ।। २४२ ।। बहिर्व्यापाररहितानामन्तःसज्ञानां वृक्षादिस्थावराणामपेक्षयाऽधिकचेतनावत्वाद् गजादीनो चेतनत्वं, परं मनुष्यापेक्षायाऽल्प्रचेतनावत्त्वादचेतनत्वमतो गजादयः पशवनेतनाऽचेतना इति भावः । समवकीर्यन्ते = संनिवड्यन्ते बहवोऽर्था अस्मिन्निति समवकारः । यथा समुद्रमयनम् । _ डिमं लक्षयति-मायेन्द्रनालेति । मायेन्द्रमालेत्यादिः - मायया ( शाम्बर्या) इन्द्रजालेन ( कुहकेन ) संग्रामेण ( युद्धन ) क्रोपेन ( कोपेन ) उद्भ्रान्तादीनां चेष्टितैः ( चेष्टाभिः ), उपरागः = चन्द्रसूर्यग्रहणश्च । भूयिष्ठः - प्राचुर्ययुक्तः, ख्यातेतिवत्तकः-- ख्यातम् ( पुराणादिप्रसिद्धम् ) इतिवृत्तं ( वर्णनीयवृत्तान्तः ) यस्मिन् सः । तादृशो डिमः = तदाख्यरूपविशेषो भवति ।। २४१ ।। तत्र = तस्मिन् डिमे अङ्गी-मुख्यः रौद्ररसः इतरे सर्वे रसाः-शृङ्गारादयः शास्त्रके अविरोधसे किये गये शृङ्गारको धर्मशृङ्गार, अर्थलामके लिये किये गये शृङ्गारको अर्थशृङ्गार; और प्रहसनश्रृङ्गारको कामनार कहते हैं । उनमें काम श्रृङ्गार प्रथम अङ्कमें ही होता है । धर्मश्रृङ्गार और प्रहसनश्रृङ्गारमें नियम नहीं है ऐसा कहते हैं । चेतना चेतन जैसे हाथी आदि हैं, ये स्थावर वृक्ष आदिसे आधिक संवेदन शील होनेसे चेतन हैं, और मनुष्यकी अपेक्षा अल्प विवेकवाले होनेसे अचेतन भी हैं । बहुतसे विषय इसमें निबद्ध होते हैं, इसलिए इसको समवकार कहते है । जैसे-समुद्रमथन। डिम-माया, इन्द्रजाल, युद्ध और उद्भ्रान्त आदिकी चेष्टाओंसे; चन्द्र और सूर्यके ग्रहणोंसे युक्त तथा पुराण आदिमें प्रसिद्ध इतिवृत्त जिसमें रहता है उसे ''डिम" कहते हैं ।। २४१॥ उसमें रौढ रस प्रधान होता है अन्य समस्त रस अङ्ग ( अप्रधान ) होते हैं ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy