________________
षष्ठः परिच्छेदः
५५१
वस्तु द्वादशनालोभिर्निष्पाद्यप्रथमाङ्कगम् ॥ २३८ ।।
द्वितीयेऽङ्क चतसृभिभ्यिामङ्क तृतीयके । नालिका घटिकाद्वयमुच्यते । बिन्दुप्रवेशको च नाटकोक्तावपि नेह विधातव्यो । तत्र
धर्मार्थकामैत्रिविधः शृङ्गारः, कपटः पुनः ॥ २३९ ॥ स्वाभाविकः कृत्रिमश्च दैवजो विद्रवः पुनः ।
अचेतनैश्चेतनैश्च चेतनाचेतनैः कृतः ॥ २४० ॥ प्रयमाऽङ्कगम् = आदिमावस्थित, वस्तु = इतिवत्तं, द्वादशनालीमिः = द्वादशमुहर्तेः; निष्पाद्य = संपादनीयम् ॥ २३८ ॥
द्वितीये अड्के, वस्तु, चतसृभिः, "तिसृभिः" इति पाठान्तरम् । नालीभिः; निष्पाद्यम् । तृतीयकेऽङ्के, वस्तु द्वाभ्यां = नालीभ्यां, निष्पाद्यम् ।
विवृणोति-नालिकेति । बिन्दुप्रवेशकाविति । "विना विशेष सर्वेषां लक्ष्म नाटकवन्मतम्; ( ३८८ पृ.) । इत्युक्त्या समवकारस्याऽपि नाटकप्रकृतित्वात्प्राप्तयो. बिन्दुप्रवेशकयोनिषेधः।
शृङ्गार-कपट-विद्रवान्विभज्य प्रदर्शयति-धर्माऽर्थकामैरिति । शृङ्गारः धर्माऽर्थ कामस्त्रिविधः = त्रिप्रकारः । तत्र शास्त्राऽविरोधेन = "ऋती भार्यामुपेयाव" इत्यादिशास्त्रवचनस्य, अविरोधेन = आनुकूल्येन कृतः शृङ्गारो धर्मशृङ्गारः । अर्थलार्भार थंकल्पितः शृगारः अर्थशृङ्गारः, वेश्यादिभिरिति शेषः । प्रहसनशृङ्गारः = कामशृङ्गारः, यथा लटकमेलकादौ । तत्र कामशृङ्गारः समवकारे प्रथमाऽङ्क एव, अन्ययोस्तु-द्वितीयतृतीयाऽङ्कयोस्तु न नियम इत्याहुः । पुनः कपटः ।। २३९ ।।
स्वाभाविकः = सांसिद्धिकः, कृत्रिमः - क्रियया निर्वृत्तः, देवजश्च = नियतिजन्यश्चेति कपटोऽपि त्रिविधः । पुन: -विद्रवः = शङ्काभयत्रासकृतः संभ्रमः, सोऽपि विविध:-अचेतनः काष्ठपुतलिकादिभिः कृतः एकः, चेतनैः कृतः द्वितीयः, चेतनाऽवेतनः गजादिभिः कृतस्तृतीयः। ये सब होने चाहिए, इसमें प्रथम अङ्कके इतिवृत्तिको बारह मुहूर्तोसे सम्पादन करना चाहिए ।। २३८ ॥
इसमें द्वितीय क्षङ्कके इतिवृत्तको चार मुहर्तोसे और तृतीय अङ्कके इतिवृत्तको दो मुहूर्तोंसे सम्पादन करना चाहिए। दो घटिकाओंके कालको नालिका कहते हैं। नाटकमें उक्त होनेपर भी बिन्दु और प्रवेशकको इसमें नहीं रखना चाहिए । इसमें धर्म शृङ्गार, अर्थशृङ्गार, कामशृङ्गार इस प्रकार शृङ्गारके तीनों भेद, स्वाभाविक, कृत्रिम .. (बनावटी) और देवज, तीन प्रकारका कपट और विद्रव भी अकेतनकृत, चेतनकृत और चेतनाऽचेतनकृत तीन प्रकारका होता है ।। २४० ॥