SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ · षष्ठः परिच्छेदः ५३९ एषां च लक्षणनाट्यालङ्काराणां सामान्यत एकरूपत्वेऽपि भेदेन व्यपदेशो गड्डालकाप्रवाहेण । एषु च केषांचिद्गुणालङ्कारभावसन्ध्यनविशेषान्तर्भावेऽपि नाटके प्रयत्नतः कर्त्तव्यत्वात्तद्विशेषोक्तिः । एतानि च-.. पञ्चसन्धि चतुर्वृत्ति चतुःषष्टयङ्गसंयुतम् । षट्त्रिंशल्लक्षणोपेतमलङ्कारोपशोभितम् ॥ भूषणनाट्याऽलङ्काराऽऽदिविषये विशेषमाह--एषामिति । एषां = पूर्वोक्तानां, लक्षणा-नाट्याऽलङ्काराणां भूषणादिलक्षगानाम्, आमीरादिनाट्याऽलङ्काराणां च, सामानात: नाट्यभूषणहेतुत्वरूपसाधारणधर्माद, एकरूपत्वेऽपि= समानस्वरूपत्वेऽपि भेदेन व्यपदेशः = इदं लक्षणमयमलङ्कार इति पार्थक्येन व्यवहारः; गड्डठिकाप्रवाहेण = गडडलिका ( मेषी ) तत्प्रवाहेण (तत्प्रचलनेन) यथा गडलिका एका अपरा, तां च अन्याम अनुगच्छति, तासां गताऽनुगतन्यायेन भेदः । ननु भूषणस्य यथायथं गुणेऽलङ्कारे च, शोभायाः श्लेषे, विशेषणस्य विशेषोक्त्यलङ्कारे च, एवमाशीरादिनाटाऽलङ्काराणामाशीराधलखारेषु, एवं च युक्रूयादीनां युक्त्यादिसन्ध्यङ्गेषु चाऽन्तर्भावे सिद्ध पुनरुपादानं किमर्थमिति । संशयं समाधत्ते--एष चेति । एषु लक्षण-नाटयाउन ङ्कारेषु, केषांचित् = भूषणाचागीरादीनां, गुणाऽलङ्कार भाव-सन्हाङ्गविशेषाऽन्तर्भावेऽपि = तेषु तेषु गुणेषु अलङ्कारेषु, भावेषु सन्ध्यङ्गविशेषेषु अन्तःपातित्वेऽपि. नाटके च = रूके, प्रयत्नतः = प्रयासतः, कर्तव्यत्वात्-करणीयस्वाद, विशेषोक्तिः = भेदेनोक्तिः। एतानि च । एतानि पञ्चसन्ध्यादीनि । अवश्यं कर्तव्यानीति पदद्वयन सम्बन्धः । अवाऽर्थे भरतमुनिवाक्यं प्रमागति--पञ्चसन्धोति । पञ्चन्धि = पञ्च (पञ्चसंख्यकाः ) सन्ध्रयः ( मुखसन्ध्यादयः ) यस्मिस्तत्, तादशं "नाटकं कुर्यात्" इत्यत्र सम्बन्धः, एव परत्राऽपि । चतुर्वत्ति = चतस्रः (चतुःसंख्यकाः ) वृत्तयः (कैशिक्या. दयः ) यस्मिस्तत् । चतुःषष्पक्षसंयुतं = चतुःषष्टयङ्गः ( मुखादिपञ्चसन्ध्यङ्गः) संयुतम् ( सहितम् ) । षट्त्रिंशल्लक्षणोपेतं = षट्त्रिंशल्लक्षणः (भूषणादिभिः) उपेतम् (संयुक्तम् ) । अलङ्कारोपशोभितम् अलङ्कारः (आशीरादिमिः) उपशोभितम् ये लक्षण और नाट्याऽलङ्कार नाट्य के भूषण रूप हैं अतः सामान्यतः एकरूप ही हैं तो भी इनका भेदसे व्यवहार भेड़िया घसान न्यायसे हैं। इनमें कई गुण, अलङ्कार, भाव और सन्धिके अलोंमें अन्तर्भूत हो सकते हैं, तो भी नाटकमें प्रयत्न पूर्वक कर्तव्य होनेसे इनकी विशेष रूपसे उक्ति हुई है । ये--पांच सन्धियोंसे; चार वृत्तियोंसे चौसठ अङ्गोंसे
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy