________________
५३८
यथा तत्रैव-
'यदि समरमपास्य नास्ति मृत्योर्भयमिति युक्तमितोऽन्यतः प्रयातुम् ।
अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वम् ।।' (३६) । प्रहर्षः प्रमदाधिक्यं -
यथा शाकुन्तले-
साहित्यदर्पणे
'राजा -- तत्किमिदानीमात्मानं पूर्णमनोरथ नाभिनन्दामि ।' - शिक्षा स्यादुपदेशनम् |
यथा तत्रैव
'सहि ! ण जुत्तं अभ्समवासिणो जणस्स अकिदसक्कारं अदिधिविसेसं उअि सच्छन्ददो गमनम्' ।
P
युक्तिमुदाहरति-यदीति । कुरुक्षेत्रे समरभूमी पलायनपरान्नरपतीनुद्दिश्या• श्वत्थाम्न उक्तिरियम् । समरं युद्धम्, अपास्य = त्यक्त्वा, मृत्योः = मरणात्, भयभीतिः, नाऽस्ति यदि = नाऽस्ति चेत्, तहि इतः = अस्मात् समरादित्यर्थः । अन्यतः अन्यस्मिन् स्थले, प्रयातुं = गन्तुं युक्तम् = उचितम् । अथ = पक्षान्तरे, जन्तोः = जननशीलस्य प्राणिनः, मरणं = मृत्युः, अवश्यम् एव = ध्रुवम् एव, उहि किमिति = केन कारणेन, यशः = कीर्ति, सुधा व्यर्थ, मलिनं = मलीमसं कुरुध्वं = सम्रादयध्वम् । पुष्पिताग्रा वृत्तम् । अत्र युद्धं कर्तव्यमेवेत्यर्थावधारणात् युक्तिः ।
प्रहर्ष लक्षयति - प्रहर्ष इति । प्रमदाऽऽधिक्थं प्रमदस्य ( हर्षस्य ) आधिक्य म् ( अधिकता ) " प्रहर्षः " इति ।
यथेति । अत्र राश: पत्नीपुत्रलाभेन हर्षाधिक्यात् प्रहर्षो नाम
प्रहर्ष मुदाहरति नाटघाऽलङ्कारः' ।
=
उपदेशनं लक्षयति - शिक्षेति । शिक्षा उपदेशकरणम् " उपदेशनम् ” । उपदेशन मुदाहरति- यथेति । "सखि ! न युक्तमाश्रमवासिनो जनस्याऽकृतसस्कारमतिथिविशेष मुज्झित्वा स्वच्छन्दतो गमनम्" इति संस्कृतच्छाया । स्वच्छन्दता= आत्माऽभिप्रायानुसारेण स्वातन्त्र्येणेति भावः । अत्र शकुन्तलां प्रत्यनसूयाया उपदेशानादुपदेशनं नाम नट्याऽलङ्कारः ।
"युद्धको छोड़कर मृत्युका भय नहीं तो अन्यत्र जाना उचित है, परन्तु जन्तुका अवश्य ही मरण है तो क्यों अपने यशको मलिन करते हो ?"
प्रहर्ष -- हकी अधिकताको "प्रहर्ष" कहते हैं ।
जैसे शाकुन्तल में राजा (दुष्यन्त ) -- Maa क्यों इस समय पूर्ण मनोरथ• वाले अपनेको अभिनन्दन न करूं ?" !
उपवेशन - - शिक्षा करने को " उपदेशन" कहते हैं ।
जैसे वहीं ( शाकुन्तल ) पर - - " सखि ! आश्रम में रहनेवालेको अतिथिका सत्कार किये विना स्वच्छन्द होकर जाना उचित नहीं है" ।