________________
५४०
साहित्यदर्पणे
महारसं
महाभोगमुदात्तरचनाम्बितम् । महापुरुषसत्कारं साध्वाचारं जनप्रियम् ॥ सुश्लिष्टसन्धियोगं च सुप्रयोगं सुखाश्रयम् । मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥ इति मुनिनानाटकेऽवश्यं कर्तव्यान्येव । वीध्यङ्गानि वक्ष्यन्ते ।
- लास्याङ्गान्याह-
गेयपदं स्थित पाठ्यमासीनं पुष्पगण्डिका ॥ २१२ ॥
( सञ्जात शोधम् ) | महारस महान (शृङ्गारो वीरो वा ) रस: ( अलक्ष्यक्रमव्यङ्ग्यः) यस्मिस्तत् । महाभोगं = महान ( विपुलः) भोगः ( विलासः ) यस्मिंस्तत् । उदात्त· रचनाऽचितम् = उदात्ता ( उत्कृष्टा ) या रचना (निर्मितिः) तथा अन्वितम् । युक्तम् । महापुरुषसत्कारं = महापुरुषस्य ( धीरोदात्तनायकस्य ) सत्कार : ( आदर, गुणवर्णनरूप इति भाव: ) यस्मिस्तत् । साध्वाचारं साधुः ( शास्त्रसम्मत: ) आचार : ( व्यवहारः ) • यस्मिस्तत् । जनप्रियं = लोकाऽभीप्सितम् सुश्लिष्टसन्धियोग = सुश्लिष्ट: ( सुबद्धः ) सन्धियोग: ( मुखादिसन्धिसम्बन्धः ) यस्मिस्तत् । सुप्रयोगं = शोभनः प्रयोग: . ( अभिनयः ) यस्मिंस्तत्, सुखाश्रयं = हर्षाऽधिकरणभूतम् । मृदुशब्दाऽभिधानं मृदुशब्दानां ( कोमलपदानाम् ) अभिधानं ( कथनम् ) यस्निस्तत् "मृदुशब्दातिपातम् " - इति पाठान्तरे मृदुशब्दानाम्, अतिपात: ( विस्तार: ) यस्मिंस्तदित्यर्थः । एतादृशं नाटकं = रूपकं, कविः कुर्यात् = विदधीत ॥
-
मुनिना = भरतमहर्षिणा । अवश्यं कर्तव्यान्येवेति । मुनिना सन्ध्यङ्गनाट्यलक्षणनाट्यालङ्काराणां पृयगभिधानात्सन्ध्यङ्गविशेषाश्च नावश्यका इति प्रागेवोक्तत्वान्नाट्यलक्षण-नाट्यालङ्काराश्चाऽवश्यं कर्तव्या इति भावः ।
वीथ्यङ्गानीति । वक्ष्यन्ते - अभिधास्यन्ते "अस्यास्त्रयोदशाऽङ्गानि " इत्यादिनेति शेषः ।
लास्याऽङ्गान्याह -- गेयपदमिति । गेयपदं स्थितपाठ्यम्, आसीनं पुष्पगण्डिका ।। २१२ ।
छत्तीस लक्षणोंसे युक्त, अलङ्कारोंसे उपशोभित, शृङ्गार आदि रससे युक्त, विपुल विलास से सम्पन्न, उत्कृष्ट रचनासे युक्त, महापुरुषके गुणोंके वर्णनस्वरूप, शास्त्रसम्मत आचारसहित, लोकप्रिय, सुबद्ध मुख आदि सन्धियोंसे युक्त, सुन्दर अभिनयवाला और कोमल
के प्रयोगसे सम्पन्न नाटककी रचना कविको करनी चाहिए मुनिके ऐसे कथन से इनको नाटक अवश्य करना ही चाहिए। वीथीके अङ्गों को पीछे कहेंगे ।
लास्य अङ्गोंको कहते हैं- गेयपद, स्थितपाठ्य, आसीन, पुष्पगण्डिका ॥ २१२ ॥