SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे परिहार इति प्राक्तः कृतानुचितमार्जनम् । यथा 'प्राणप्रयाणदुःखात उक्तवानरम्यनक्षरम् । तत्क्षमस्व विभो! किं च सुग्रीवस्ते समर्पितः॥' अवधीरितकर्तव्यकथनं तु निवेदनम् ॥ २१० ॥ यथा राघवाभ्युदये-- 'लक्ष्मणः-आर्य ! समुद्राभ्यर्थनया गन्तुमुद्यतोऽसि । तत्किमेतत् ?' दशसंख्यकः, स्वमस्तक, क्रीडां खेला, किं कारयसि । अत्र दूतमुखेन रामकृतयाच्नाया "याच्या"। परिहार लक्षयति-परिहार इति । कृताऽनुचितमार्जनं कृतस्य (विहितस्य ) अनुचितस्य ( अयुक्तस्य ) कर्मणो मार्जनं परिहारः, परिहारो नाम नाट्याऽलङ्कारः। परिहारमुदाहरति-प्राणेति । रामशराहतस्य म्रियमाणस्य वालिनः श्रीराम प्रत्युक्तिरियम्, हे राम !, प्राणप्रप्रयाणदुःखात: प्राणप्रयाणे ( असुमोक्षणसमये ) यत् दुःख ( वेदना.) तेन आर्तः ( पीडितः ) सन्, यत् अनक्षरम् = अवाच्यं, "स्वया तपस्विचाण्डाले"त्यादिवाक्यरूपम्, उक्तवान् = अभिहितवान्, अस्मि, तद् = अनक्षरं, क्षमस्वमर्षय, किंध, हे विमो = हे प्रभो! सुप्रोवः = मदनुजः, ते तुभ्यं, समर्पित:= दतः । अत्र वालिनात्मकृतस्याऽनुचितस्य मार्जनात् "परिमार्जनम्"। निवेदनं लक्षयति-अवधीरितेति । अवधीरितकर्तव्य कथनम् = अवधीरितम् ( अवज्ञातम् ) यत् कर्तव्यं ( कृत्यम् ) तस्य कथनं ( प्रतिपादनम् ) तत् "निवेदन" नाम नाटघाऽलङ्कारः ॥ २१०॥ निवेदनमुदाहरति-यथेति । अत्र पुराऽवज्ञातस्य समुद्र समीपगमनस्य कर्तव्यत्वकथनात् "निवेदनम्"। भी सीताजीको दे दो। तुमपर रामचन्द्र जी दयालु हैं । बानरोंसे अपने मस्तकोंकी क्यों गेंदकी क्रीडा कराते हो। परिहार--किये गये अनुचित कार्यके मार्जनको "परिहार" कहते हैं । जैसे(अन्तकालमें वाली रामको कहता है ) हे प्रभो ! प्राण जानेके समय में वेदनासे प्रीडित होकर मैंने जो अवाच्य वचन कहा है उसे आप क्षमा करें। ( भाई ) सुग्री को मैंने भापको सौंप दिया है।" निवेदन--तिरस्कृत कर्तव्यके कथनको "निवेदन" कहते हैं ।। २१० ॥ जंसे राघवाऽभ्यदयमें--लक्ष्मण ( रामको कहते ) आर्य ! आप समुद्रकी प्रार्थनासे जानेके लिए उद्यत हो रहे हैं "यह क्या है" ?।।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy