________________
षष्ठः परिच्छेदः
प्रोत्साहनं स्यादुत्साहगिरां कस्यापि योजनम् ॥ २०७ ॥
यथा बालरामायणे
'कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससि । तज्जगत्त्रितयं त्रातुं तात ! ताडय ताडकाम् ॥' साहाय्यं सङ्कटे यत्स्यात् सानुकूल्यं परस्य च ।
५३३
अस्मात्कारणात्, प्रिया = वल्लभा, अप्रिया = अवल्लमा वा, प्रमदा नारी, स्वबन्धुभि:आत्मबान्धवैः, पित्रादिभिरिति भाव: । परिणेतुः = पत्युः समीपे - निकटे, इष्यते = अभिलष्यते । वंशस्थं वृत्तम् ।
"
अत्र "किमिदमुपन्यस्तम्" इति राजवचनस्योपालम्भविशेषेणाऽनेकधोत्कीर्तनात् "अर्थ विशेषणम्” ।
-
उत्साहोत्पादक
प्रोत्साहनं लक्षयति-प्रोत्साहनमिति । उत्साहगिरा वाक्येन, कस्याऽपि = जनस्य, योजनं = प्रवर्तनं " प्रोत्साहनं" स्यात् ॥ २०७ ॥ प्रोत्साहनमुदाहरति- कालरात्रिकरालेति । यज्ञरक्षोद्यतं श्रीरामं प्रति विश्वा• मित्रस्योक्तिरियम् । हे तात हे वत्स, राम ! कालरात्रिकराला = कालरात्रि: ( प्रलयसमयरजनी ) सा इव कराला ( भीषणा ), "उपमानानि सामान्यवचनैः" इति समासः । इयं = ताडका राक्षसी, स्त्री = अबला, इति = एवं किं किमर्थं विचिकित्ससि शेषे, स्त्रीत्वेनेयम् अहन्तव्या न प्रत्युत करालवेन राक्षसीन्वेन च इन्तव्येवेति भावः । तत् = तस्मात्कारणात् । जगत्त्रितयं = लोकत्रय, त्रातु = रक्षितु, ताडकां - सुन्दस्त्रियं राक्षसों, टाडय = प्रहर । अत्र विश्वामित्रेणोत्साहगिरा ताडकावधे रामस्य योजनात् "प्रोत्साहनं" नाम नाटघालङ्कारः ।
=
=
साहाय्यं लक्षयति-साहाय्यमिति । सङ्कटे = विपदि परस्य = अन्यस्य, यत्, सानुकूल्यम् = अनुकूलता साहित्यम् । अनुकूलाचरणमिति भावः । तत् "साहाय्यम्" । ऐसा सन्देह करता है, इस कारणसे स्त्री पतिकी प्रिया हो वा अप्रिया हो उसे पिता आदि बन्धु पतिके समीप रहना ही पसन्द करते हैं ।
प्रोत्साहन - उत्साहजनक वाक्यसे किसीको किसी काममें नियुक्त करनेको "प्रोत्साहन " कहते हैं ॥ २०७ ॥
जैसे बालरामायण में - ( विश्वामित्र रामको कहते हैं ) हे क्त्स ! यह ( ताडका ) कालरात्रिके सदृश भयङ्कर हैं, यह स्त्री है ( अतः वध्य नहीं है ) ऐसी शाको आप क्यों करते हैं, इस कारणसे तीन लोकोंकी रक्षा करने के लिए इस ताड़का को मार डालिए ||
साहाय्य — सङ्कट में दूसरेके अनुकूल आचरण करनेको साहाय्य " कहते हैं ।