________________
षष्ठः परिच्छेदः
५३१
-उत्तेजनामितीप्यते । स्वकार्य सिद्धयेऽन्यस्य प्रेरणाय कटोरवाक् ॥ २०५॥ यथा-'इन्द्रजिच्चण्डवीर्योऽसि नाम्नैव बलवानसि।
धिग्धिक्प्रच्छन्न रूपेण युध्यसेऽस्मद्भयाकुलः ।।'
भत्सना तु परीवादःयथा सुन्दराके
'दुर्योधनः-धिग धिक सूत ! किं कृतवानसि ।। वत्सस्य मे प्रकृतिदुर्ललितस्य पापः पापं विधास्यति-' (वे० सं०४-५) इत्यादि ।
उत्तेजनं लक्षयति-उत्तजनमिति । स्वकार्यसिद्धये = निजकर्मसिवयर्थम्, अन्यस्य = अपरजनस्य, प्रेरणाय = प्रवृत्तये, कठोरवाक् = पषवचनम्, "उत्तेजनम्" इति नाट्यालङ्कारः, इष्यते - अभिलष्यते ।। २०५॥
उत्तेजनमुदाहरति-इन्द्रजिविति। इन्द्रजितं प्रति लक्ष्मणस्योक्तिरियम् । हे इन्द्रजित् = हे मेघनाद !, त्वं, चण्डवीर्यः = चण्डं (प्रचण्डम् ) वीर्य ( पराक्रमः ) यस्य सः, तादृश = असि, किन्तु नाम्ना एव = इन्द्रजित इति समाख्यया एव, न तु कमणेति भावः । बलवान् = शक्तिसम्पन्नः, असि, तथापि, अस्मद्भयाकुलः = अस्मत मत् भयं (भीतिः ), तेन आकुल: ( व्याकुल:) सन्, प्रच्छन्नरूपेण = अलक्षितभावेन, युध्यसे = समहरसि, अत: धिक् धिक् = स्वामिति शेषः । त्वां साऽतिशयं निन्दामोति भावः । अत्र लक्ष्मणस्य इन्द्रजिषरूपस्वकार्यसिद्धये इन्द्रजितः प्रकाशयुद्धे प्रेरणाऽयं कठोरवचनात् "उत्तेजनं" नाम काव्याऽलङ्कारः। ।
परीवादं लक्षयति-भर्त्सनेति । भत्संना = तर्जनं, "परीवादः"।
परीवादमुदाहरति-यथेति । वत्सस्येति । पापः = पापी, भीमसेन इति भावः, प्रकृतिदुललितस्य = दुःखेन कृतलालनस्य मे = मम, वत्सस्य = वात्सल्यभाजनस्य, दुःशासनस्य पापम् = अनिष्ट, विधास्यति = करिष्यति । इत्यादि ।
अत्र दुर्योधनकर्तृकसूतभर्मनया परीवादो नाम नाट्याऽलङ्कारः ।
उत्तजन-अपने कार्यकी सिद्धि के निमित दूसरेको प्रेरणा करने के लिए कठार वचनको "उत्तेजन" कहते हैं । २०५॥
इन्द्रजितको लक्ष्मण कहते हैं- हे इन्द्रजिद ! तू प्रचण्ड बलवाला है, किन्तु नामसे ही इन्द्रजित है। जो कि हमारे भयसे आकुल होकर अदृश्य रूपसे तू युद्ध कर रहा है । तुझे धिक्कार है धिक्कार है ।
परीवाद-भर्सना (घुड़कने ) को "परीवाद" कहते हैं ।
जैसे सुन्दराकमें-दुर्योधन-सूत ! तुझे धिक्कार है धिक्कार है । तुमने क्या किया ? "पापी ( भीमसेन ) स्वभावसे बहुत ही लाड़पार किये गये मेरे वात्सल्यभाजन दुःशासनका पाप ( अनिष्ट ) करेगा, इत्यादि ।