________________
१३०
विसर्पो यत्समारब्धं कर्मानिष्टफलप्रदम् ॥। २०४ ।।
यथा वेण्याम्
साहित्यदर्पणे
'एकस्यैव विपाकोऽयम् -' ( ६ - ९९ पृ० ) इत्यादि ।
कार्यदर्शनमुल्लेख:
यथा शाकुन्तले- राजानं प्रति
'तापसौ – समिदाहरणाय प्रस्थितावावाम् । इह चास्मद्गुरोः कुलपतेः साधिदेव इष शकुन्तलयानुमालिनीतीरमाश्रमो दृश्यते । न चेदन्य ( था ) कार्यातिपातः प्रविश्य गृह्यतामतिथिसत्कार:' इति ।
विसर्प लक्षयति- विसर्प इति । अनिष्टफलप्रदद् = अरुभीष्टपरिणामकारकं -यत्, कर्म - क्रिया, समारब्धम् अनुष्ठितं स "विसर्पः” ॥ २०४ ॥
विसमुदाहरति - एकस्येति । "एकस्यैव विपाकोऽयम्" इत्यादि ।
एकस्य = द्रौपदीकेशग्रहस्य, विपाकः परिणामः, राजसमूहक्षयरूप इति भावः । द्वितोये = घृष्टद्य म्नकृतद्रोण केशग्रहे जाते । अत्र द्रोणकेशग्रहरूपस्य अनिष्टफलप्रद कर्मणः समारम्भात् "विसर्पः"।
उल्लेख लक्षपति - कार्यदर्शनमिति । कार्यदर्शनं कर्मविलोकनम्, “उल्लेखः”, क्वचित् "कार्यग्रहणम्" इति पाठान्तरम् ।
उल्लेख मुदाहरति - यथेति । अस्मद्गुरोः = अस्मदाचार्यस्य, कुलपते महर्षि कण्य-स्येति भावः । साधिदैवत:- अधिदेवतेन ( अधिष्ठात्र्या = देव्या ) सह । अनुमालिनीतीरं = मालिनीतीरस्य समीपे, "अनुयंत्समया" इत्यव्ययीभावः । अन्यकार्याऽतिपातः = अन्यकार्यस्य (कार्यान्तरस्य ) अतिपात: ( अतिक्रमः ) । अत्र राज्ञः शकुन्तलायुक्ताऽऽश्रमप्रवेशरूपकार्यस्य दर्शनात् उल्लेखो नाम नाट्यालङ्कारः ।
विसर्प -- अनिष्ट फल देनेवाले कर्मका अनुष्ठान करने को "विसर्प" कहते हैं ॥ २०४ ॥
जैसे - " एकस्यैव विपाकोऽयम्" इत्यादि ।
=
उल्लेख -- कार्यदर्शनको " उल्लेख " कहते हैं ।
जैसे शाकुन्तल में -- राजा ( दुध्यन्त ) को दो तपस्वी कहते हैं- "समिधा लाने के लिए हम दोनोंने प्रस्थान किया है । यहाँपर मालिनी नदीके तीरके समीप शकुन्तला से अधिदेवता से युक्त के समान हमारे गुरुजीका आश्रय देखा जाता है। और कार्यका अतिक्रम न हो तो ( वहाँपर ) प्रवेश कर आप अतिथिसत्कारका ग्रहण करें ।।