________________
साहित्यदर्पणे
-
यथा कुम्भाङ्क'रावणः-पश्यामि शोकविवशोऽन्तकमेव तावत् ।'
ग्रहणं गुणवत्कार्यहेतोराश्रय उच्यते । यथा विभीषणनिर्भत्सनाङ्के
'विभीषणः-राममेवाश्रयामि' इति ।
उत्प्रासनं तूपहासो योऽसाधौ साधुमानिनि ॥ २०१॥ यथा शाकुन्तले
'शारिवः-राजन् ! अथ पुनः पूर्ववृत्तान्तमन्यसङ्गाद्विस्मृतो भवान् । तत्कथमधर्मभीरोदरपरित्याग:--' इत्यादि।
उद्यममुदाहरति-पश्यामीति । शोकविवश:-मन्युपराधीनः, तावत् अन्तकम् एव = यमम् एव, पश्यामि । अत्र युद्धरूपकार्यस्य आरम्भसूचनात् "उद्यमः"।
आश्रयं लक्षयति-ग्रहणमिति । कार्यहेतोः कर्मकारणाद, गुणवत्-उत्कर्ष: - युक्तं; ग्रहणम् = आश्रयणम् "आश्रय" उच्यते ।
आश्रयमुदाहरति-यथेति । अत्र विभीषणस्य राज्यप्राप्तिरूपकार्यहेतोः श्रीरामस्याश्रयणात् आश्रयो नाम नाट्याऽलङ्कारः।।
उत्प्रासनं लक्षयति-उत्प्रासनमिति । साधुमानिनि = य आत्मानं साधु मन्यते तस्मिन्, वस्तुतः असाधी = असज्जने । उपहासस्तु = परिहासस्तु "उपासनं" नाम नाट्याऽलङ्कारः ॥ २०१॥
___ उत्प्रासनमुदाहरति-यथेति । पूर्ववृत्तं = प्रथममाचरणं, शकुन्तलापरिणयरूपमिति भावः । अन्यसङ्गात् अन्यस्याः ( अपरस्याः ) स्त्रियाः, सङ्गात् (संसर्गात)। अत्र "सर्वनाम्नो वृत्तिमात्र पुवद्भावः" इति नियमेन बद्भावः । अधर्मभीरो:=पापकात. रस्य, भवत इति शेषः । अथाऽसाधु परं साधुमानिनं दुष्यन्तं प्रति शाङ्गरवस्योपहासात् उत्प्रासनम्"।
जैसे कुम्भाङ्कमें-रावण-शोकसे विवश होकर यमराजका ही दर्शन
प्राश्रय-कार्यके लिए उत्कर्षयुक्त ग्रहणको "माश्रय" कहते हैं।
जैसे विभीषणनिर्भत्सनामें-विभीषण--मैं धीरामका ही पाश्रय लेता हूँ।
उत्प्रासन--अपने को सज्जन माननेवाले दुर्जनके उपहास करनेको "उत्प्रासन" कहते हैं ॥ २०१॥
- जैसे शाकुन्तलमें-शाङ्गरव--"राजन् ! दूसरी स्त्रीके सम्पर्कसे आप पूर्व वृत्तान्तको भूल गये हैं। पापभीरु वापसे कैसे पत्नीका परित्याग होगा ?" इत्यादि।