SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ५२४ साहित्यदर्पणे . पुत्रं त्वमपि समाज सेव पूरुमवाप्नुहि ।।' आक्रन्दः प्रलपितं शुचा । यथा वेण्याम्- 'कन्चुकी हा देवि ! कुन्ति ! राजभवनपताके !-' इत्यादि। कपटं मायया यत्र रूपमन्यद्विभाव्यते ॥ १९९ ॥ यथा कुलपत्य 'मृगरूपं परित्यज्य विधाय कपटं वपुः। नीयते रक्षसा तेनलक्ष्मणोयुधि संशयम्॥' पर्वसुता इव, पत्युः स्वामिना, दुष्यन्तस्य, 'बहुमता" इत्यस्य योगे 'क्तस्य च वर्तमाने" इति षष्ठी बहुसम्मता = अतिशयादता, भव = एघि । सा = शर्मिष्ठा, पूम् इव = पूरुनामकं पुत्रम् इव, त्वम् अपि, सम्राजं - राजसूयाऽनुष्ठानपूर्वकं राजमण्डलेश्वरं, पुत्रतनयम प्राप्नुहि = लमस्व । अत्र सम्राटपुत्रप्राप्तिरूपाशीर्वादाशंसनादाशीरलङ्कारः । आक्रन्दं लक्षति-मानन्द इति । शुचा = शोकेन हेतुना, प्रलपितं = प्रलापः - आक्रन्दमुदाहरति-यथेति । राजभवनपता = प्रासादध्वजसदृशि !, इत्यादि । अत्र शोकेन प्रलापादाक्रन्दो नामाऽलङ्कारः। कपटं लक्षयति-कपटमिति । यत्र - यस्मिन् स्थले, मायया = कतवेन, अन्यत् = अपरं, रूपम् = आकारः, विभाव्यते = प्रकाश्यते, तत् "कपटम्" ।। १९९ ।। ___ कपटमुवाहरति-मगरूपमिति । तेन, रक्षसा = राक्षसेन मारीचेनेति भावः । मृगरूपं = हरिणाऽऽकृति, परित्यज्य = विहाय, कपटं = व्याजयुक्त, वपुः- शरीरं, 'विधाय =निर्माय, युधि = युद्धे, लक्ष्मणः, संशयं = जीवनसन्देह, नीयते = प्राप्यते । अत्र मारीचस्य मृगरूपत्यागपूर्व कपटवपुविधानात् "कपट" नाम नाटयाऽलङ्कारः । समान तुम भी पतिको अधिक सम्मानित हो। शर्मिष्ठाने जैसे पूरुको पाया था वैसे ही तुम भी सम्राट् पुत्रको प्राप्त करो। प्राक्रन्द-शोकसे प्रलाप करनेको "आफन्द" कहते हैं। जैसे वेणी (संहार ) में-कञ्च की-"हा देवि कुन्ति । राजभवनकी पताकाकी समान" इत्यादि। कपट-मायासे दूसरा रूप प्रकाशित करनेको "कपट" कहते हैं ।। १९९॥ जैसे कुलपत्यक में-उस राक्षस ( मारीच ) ने मृगरूपको छोड़कर कपटयुक्त शरीर बनाकर युद्धमें लक्ष्मणके जीवनको संशययुक्त बनाया है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy