________________
षष्ठः परिच्छेदः
५२१
यथा
'रतिकेलिकलः किंचिद्वेष मन्मथमन्थरः। पश्य सुभ्र ! समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥' विशेषार्थोहविस्तारोऽनुक्तसिद्धिरुदीयते ।
यथा
गृहवृक्षवाटिकायाम्
दृश्येते तन्धि ! यावेतो चारुचन्द्रमसं प्रति ।
प्राज्ञे कल्याणनामानावुभौ तिष्यपुनर्वसू ।' .. मनोरथमुशहाति-रतिकेलिकल इति । कस्यचिनायकस्य दयितां प्रत्युक्तिरियम् । हे सुभ्र - शोभन भ्रूयुक्त सुन्दरि !, शोभने ( मनोहरे ) ध्रुगे ( नयनकोमनी) यस्याः सा, तत्सम्बुढो। अत्र "नेयकुस्थानावस्त्री" इति सूत्रेण नदीसंज्ञाऽभावात रूपमिदमसाधु । ततस "हे सुभ्रू." इदमेव साधु । रतिकेलिकल: - रतो ( रमणे) केलिकला (क्रीडाविलासः ) यस्य सः । मन्मथमन्थरः = मन्मथेन (कामसञ्चारण) मन्थरः ( मन्दगतिः ), एषः = समीपतरवर्ती, कादम्बः = कलहंसः, समालम्भात - सम्यगालम्भं कृत्वा, ल्यबलोपे पञ्चमी । सम्यक्स्पर्श कृस्वेति भावः । “समाश्वस्ताम्" इति पाठान्तरे प्रियप्राप्त्या प्रसन्नामित्यर्थः । प्रियां = दयितां, कलहसीमिति भावः । चुम्बति-वक्त्रसंयुक्तां करोति, पश्य = विलोकय, वाक्याऽर्थः कर्म । अत्र भग्यन्तरेण स्वचुम्बनोऽभिप्रायस्योक्तेमनोरथो नाम लक्षणम् ।
___ अनुक्तसिद्धि लक्षयति-विशेषार्थोहविस्तार इति। विशेषस्य (रूप. लावण्याऽतिशयज्ञापनस्य ) अर्थः ( प्रयोजनम् ), तस्मिन् कहविस्तारः (तर्काऽतिशयः ), "विशेषाऽर्थोऽतिविस्तारः" इति पाठान्तरम् । "अनुलसिद्धिः" लक्षणम्, उदीयते कथ्यते। ... अनुक्तसिदिमुदाहरति-दृश्यते इति । गृहवृक्षवाटिकायां विश्वामित्रसमीपे रामलक्ष्मणो दृष्ट्वा सीतां प्रति तत्सख्या उक्तिरियम् । हे सन्वि=हे कृशाङ्गि!, चारुचन्द्रमसं प्रति = सुन्दरचन्द्रं प्रति, यो एती, दृश्येते- अवलोक्येते, हे प्राज्ञे हे बुद्धिमति !, उभौ% दो एककल्याणनामानी-भद्राऽभिधानी, तिष्य पुनर्वसू-तिष्यपुनर्वसुनक्षत्रे, स्त इति शेषः।
जैसे- हे सुन्दरि ! रमणमें क्रीडाके विलाससे युक्त, काम सञ्चारसे मन्दगतिवाला यह हंस स्पर्शपूर्वक अपनी प्रिया ( हंसी) को चूम रहा है । देखो।"
अनुक्तसिद्धि-विशेष ( रूप और लावण्यके आधिक्यका ज्ञापन )के प्रयोजनके लिए तर्कके विस्तारको "अनुक्तसिद्धि" कहते हैं।
जैसे गहवक्षवाटिकामें सीताको उनको सखी कहती है हे शाङ्गि ! सुन्दर चन्द्रमा ( विश्वामित्र ) के पास जो ये दो देखे जाते हैं, हे बुद्धिसम्पन्न ! ये हो (राम और लक्ष्मण ) कल्याण नामवाले पृष्म और पुनर्वसु नक्षत्र हैं।